यस्य चैवात्मजो ब्रह्मा सर्वस्य जगतः पिता । कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः
वारितोऽसि मया तात मुनिर्भिर्वेदपारगैः । मा गच्छ संयुगं तेन वासुदेवेन धन्विना
मा पाण्डवैः सार्धमिति तत्त्वं मोहान्न बुध्यसे। मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः
यस्माद्द्विषसि गोविन्दं पाण्डवं तं धनञ्जयम् । नरनारायणौ देवी कोऽन्यो द्विष्याद्धि मानवः
तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः । सर्कवलोकमयो नित्यः शास्ता धाता धरो ध्रुवः
यो धारयति लोकांस्त्रींश्चराचरगुरुः प्रभुः । योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः
राजन्सर्वमयो ह्येष तमोरागविवर्जितः । यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः
तस्य माहात्म्ययोगेन योगेनात्ममयेन च । धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति
श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः। बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति
स एष शाश्वतो देवाः सर्वगुह्यमयः शिवः । वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत
ब्राह्मणैः क्षत्रिकयैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिःक
द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च। सात्वतं विधिमास्थाय गीतः संकर्षणेन वै
स एष सर्वं सुरमर्त्यलोकं समुद्रकक्ष्यान्तरितां पुरीं च। युगेयुगे मानुषं चैव वासं पुनःपुनः सृजते वासुदेवाःक
वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते। तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह
वासुदेवो महद्भूतं सर्वदैवतदैवतम् । न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ
श्रुतं मे तात रामस्य जामदग्न्यस्य जल्पतः। नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च। असितो देवलश्चापि वालखिल्यास्तपोधनाः
मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत्। सर्वभूतादिभूतात्मा महात्मा पुरुषोत्तमः
आपो वायुश्च तेजश्च त्रयमेतदकल्पयत्। स सृष्ट्वा पृथिवीं देवीं सर्वलोकेश्वरः प्रभुः
अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः । सर्वदेवमयो देवः शयानः शयने सुखम्
मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च। सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युत
एषक लोकान्ससर्जादौ देवांश्च ऋषिभिः सह। अमृतं चैव मृत्युं च प्रजानां प्रभवाप्ययौ
एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः । एष कर्ता च कार्यं च आदेरादिः स्वयं प्रभुः
भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् । उभे सन्ध्ये दिवः खं च नियमांश्च जनार्दनः
ऋषींश्चैव हि गोविन्दस्तपश्चैवाभ्यकल्पयत् । स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः
अग्रजं सर्वभूतानां संकर्षणमकल्पयत्। शेषं चाकल्पयद्देवमनन्तमिति तं विदुः
यो धारयति भूतानि धरां चेमां सपर्वताम्। ध्यानयोगेन विप्राश्च तं विदन्ति महौजसम्। कर्णस्रोतोभवं चापि मधुं नाम महासुरम्
तमुग्रमुग्रकर्माणमुग्रां बुद्धइं समास्थितम् । हरन्तं ब्रह्मणो वेदाञ्जघान ब्रह्मणः पिता। ब्रह्मणोपचितिं कुर्वन्महात्मा पुरुषोत्तमः
तस्य तात वधादेव देवदानवमानवाः । मधुसूदनमित्याहुर्ऋषयश्च जनार्दनम्
वराहं नारसिंहं च त्रिविक्रममिति प्रभुम् । एष धाता विधाता च सर्वेषां प्रामिनां हरिः
परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति। मुखतः सोसृजद्विप्रान्बाहुभ्यां क्षत्रियांस्तथा