यश्च मानुषमात्रोऽयमिति ब्रूयात्स मन्दधीः । हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम्
योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् । अवमन्येद्वासुदेवं तमाहुस्तमसं जनाः
देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम्। पद्मनाभं न जानाति तमाहुस्तामसं बुधाः
किरीटकौस्तुभधरं मित्राणामभयंकरम्। अवजानन्महात्मानं घोरे तमसि मञ्जति
एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः । वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः । तस्यामहात्माजो ब्रह्मा सर्वस्य जगतः पतिः
एवमुक्त्वा स भगवान्देवान्सर्षिगकणान्पुरा। विसृज्य सर्वभूतानि जगाम भवनं स्वकम्
ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च। कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः
एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम्। वासुदेवं कथयतां समवाये पुरातनम्
रामस्य जामदग्न्यस्य मार्कण्डेयस्य धीमतः । व्यासनारदयोश्चापि सकाशाद्भरतर्षभ
एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् । वासुदेवं महात्मानं लोकानामीश्वरेश्वरम्
यस्य चैवात्मजो ब्रह्मा सर्वस्य जगतः पिता । कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः
वारितोऽसि मया तात मुनिर्भिर्वेदपारगैः । मा गच्छ संयुगं तेन वासुदेवेन धन्विना
मा पाण्डवैः सार्धमिति तत्त्वं मोहान्न बुध्यसे। मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः
यस्माद्द्विषसि गोविन्दं पाण्डवं तं धनञ्जयम् । नरनारायणौ देवी कोऽन्यो द्विष्याद्धि मानवः
तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः । सर्कवलोकमयो नित्यः शास्ता धाता धरो ध्रुवः
यो धारयति लोकांस्त्रींश्चराचरगुरुः प्रभुः । योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः
राजन्सर्वमयो ह्येष तमोरागविवर्जितः । यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः
तस्य माहात्म्ययोगेन योगेनात्ममयेन च । धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति
श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः। बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति
स एष शाश्वतो देवाः सर्वगुह्यमयः शिवः । वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत
ब्राह्मणैः क्षत्रिकयैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिःक
द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च। सात्वतं विधिमास्थाय गीतः संकर्षणेन वै
स एष सर्वं सुरमर्त्यलोकं समुद्रकक्ष्यान्तरितां पुरीं च। युगेयुगे मानुषं चैव वासं पुनःपुनः सृजते वासुदेवाःक
वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते। तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह
वासुदेवो महद्भूतं सर्वदैवतदैवतम् । न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ
श्रुतं मे तात रामस्य जामदग्न्यस्य जल्पतः। नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च। असितो देवलश्चापि वालखिल्यास्तपोधनाः
मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत्। सर्वभूतादिभूतात्मा महात्मा पुरुषोत्तमः
आपो वायुश्च तेजश्च त्रयमेतदकल्पयत्। स सृष्ट्वा पृथिवीं देवीं सर्वलोकेश्वरः प्रभुः
अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः । सर्वदेवमयो देवः शयानः शयने सुखम्
मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च। सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युत