ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः। पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः
एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् । पद्मनाभ विशालाक्ष कृष्ण दुःश्वप्रणाशन
त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगद्गुरुः । त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा
पृथिवी निर्भया देव त्वत्प्रसादात्सदाऽभवत् । तस्माद्भव विशालाक्ष यदुवंशविवर्धनः
धर्मसंस्थापनार्थाय दैत्यानां च बधाय च। जगतो धारणार्थाय विज्ञाप्यं कुरु मे विभो
यत्तत्परमकं गुह्यं त्वत्प्रसादादिदं विभो। वासुदेव तदेतत्ते मयोद्गीतं यथातथम्
सृष्ट्वा संकर्षणं देवं स्वयमात्मानमात्मना। कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसंभवम्
प्रद्युम्नादनिरुद्धं त्वं यं विदुर्विष्णुमव्ययम्। अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम्
वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः। तस्माद्याचामि लोकेश चतुरात्मानमात्मना। विभज्य भागशोत्मानं व्रज मानुषतां विभो
तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै। धर्मं प्राप्य यशः प्राप्य योगं प्राप्स्यति तत्त्वतः
त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम । तैस्तैर्हि नामभिर्युक्ता गायन्ति परमात्मकम्
स्थिताश्च सर्वे त्वयि भूतसङ्घाः कृत्वाश्रयं त्वां वरदं सुबाहो। अनादिमध्यान्तमपारयोगं लोकस्य सेतुं प्रवदन्ति विप्राः
ततः स भगवान्देवो लोकानामीश्वरेश्वरः। ब्रह्माणं प्रत्युवाचेदं स्रिग्धगम्भीरया गिरा
विदितं तात योगान्मे सर्वमेतत्तवेप्सितम् । तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत
ततो देवर्षिगन्धर्वा विस्मयं परमं गताः । कौतूहलपराः सर्वे पितामहमथाब्रुवन्
कोन्वयं यो भगवता प्रणम्य विनयाद्विभो । वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम्
एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः । देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा
यत्तत्परं भविष्यं च भवितव्यं च यत्परम् । भूतात्मा च प्रभुश्चैव ब्रह्म यच्च परं पदम्
तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः । जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः
मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः । अस्रुराणां वधार्थाय संभवस्व महीतले
संग्रामे निहता ये ते दैत्यदानवराक्षसाः । त इमे नृषु संभूता घोररूपा महाबलाः
तेषां वधार्थं भगवान्नरेण सहितो वशी । मानुषीं योनिमास्थाय चरिष्यति महीतले
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ । सहितो मानुषे लोके संभूतावमितद्युती
अजेयौ समरे यत्तौ सहितैरमरैरपि । मूढास्त्वेतौ न जानन्ति नरनारायणावृषी
तस्याहमग्रजः पुत्रः सर्वस्य जगतः प्रभुः । वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः
तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः । नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः
एतत्परमकं गुह्यमेतत्परमकं पदम् । एतत्परमकं ब्रह्म एतत्परमकं यशः
एतदक्षरमव्यक्तमेतद्वै शाश्वतं महः । यत्तत्पुरुषसंज्ञं वै गीयते ज्ञायते न च
एतत्परमकं तेज एतत्परमकं सुखम्। एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा
तस्मात्सेन्द्रैः सुरैः सर्वैर्लोकैश्चामितविक्रमःक । नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः