ध्यानेनावेद्य तद्ब्रह्मा कृत्वा च नियतोऽञ्जलिम् । नमश्चकार हृष्टात्मा पुरुषं परमेश्वरम्
ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् । स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम्
यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः । जगाद जगतः स्रष्टा परं परमधर्मवित्
विश्वावसुर्विश्वमूर्तिर्हि विश्वे विष्वक्सेनो विश्वकर्मा वशी च। विश्वेश्वरो वासुदेवोऽसि तस्मा- द्योगात्मानं देवतं त्वामुपैमि
जय विश्वमहादेव जय लोकहिते रत। जय योगीश्वर विभो जय योगपरावर
पद्मगर्भविशालाक्ष जय लोकेश्वरेश्वर। भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज
असङ्क्येयगुणाधार जय सर्वपरायण। नारायण सुदुष्पार जय शार्ङ्गधनुर्धर
जय सर्वगुणोपेत विश्वमूर्ते निरामय। विश्वेश्वर महाबाहो जय लोकार्थतत्पर
महोरगवराहाद्य हरिकेश विभो जय। हरिवासदिशामीश विश्ववासामिताव्यय
व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सत्त्क्रिय । असङ्ख्येयात्मभावज्ञ जय गम्भीर कामद
अनन्त विदित ब्रह्मन्नित्यभूतविभावन । कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयावह
गुह्यात्मन्सर्वयोगात्मन्स्फुटसंभूतसंभव। भूताद्य लोकत्त्वेश जय भूतविभावन
आत्मयोगे महाभाग कल्पसंक्षेपतत्पर । उद्भावनमनोभाव जय ब्रह्म जयप्रिय
निसर्गसर्गनिरत कामेश परमेश्वर । अमृतोद्भवसद्भाव मुक्तात्मन्विजयप्रद
प्रजापतिपते देव पद्मनाभ महाबल। आत्मभूतमहाभूत सत्वात्मञ्जय सर्वदा
पादौ तव धा देवी दिशो बाहु दिवं शिरः। मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी
बलं तपश्च सत्यं च कर्म धर्मात्मकं तव। तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसंभवाः
अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती। वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम्
न सङ्ख्यानं परीमाणं न तेजो न पराक्रमम् । न बलं योगयोगीश जानीमस्ते परंतप
त्वद्भक्तिनिरता देव नियमैस्त्वां समाश्रिताः। अर्चयामः सदा विष्णो परमेशं महेश्वरम्
ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः। पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः
एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् । पद्मनाभ विशालाक्ष कृष्ण दुःश्वप्रणाशन
त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगद्गुरुः । त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा
पृथिवी निर्भया देव त्वत्प्रसादात्सदाऽभवत् । तस्माद्भव विशालाक्ष यदुवंशविवर्धनः
धर्मसंस्थापनार्थाय दैत्यानां च बधाय च। जगतो धारणार्थाय विज्ञाप्यं कुरु मे विभो
यत्तत्परमकं गुह्यं त्वत्प्रसादादिदं विभो। वासुदेव तदेतत्ते मयोद्गीतं यथातथम्
सृष्ट्वा संकर्षणं देवं स्वयमात्मानमात्मना। कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसंभवम्
प्रद्युम्नादनिरुद्धं त्वं यं विदुर्विष्णुमव्ययम्। अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम्
वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः। तस्माद्याचामि लोकेश चतुरात्मानमात्मना। विभज्य भागशोत्मानं व्रज मानुषतां विभो
तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै। धर्मं प्राप्य यशः प्राप्य योगं प्राप्स्यति तत्त्वतः