सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः। यथा वाच्याः परैः सन्तः परानाहुस्तथाविधान्
अतो हास्यतरं लोके किंचिदन्यन्न विद्यते। यदि दुर्जन इत्याहुः सज्जनं दुर्जनाः स्वयम्
दारुणाल्लोकसंक्लेशाद्दुःखमाप्नोत्यसंशयम्।।' कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन्
उत्तमं सर्वधर्माणां तस्मात्पुत्रं तु न त्यजेत्। स्वपत्नीप्रभवाँल्लब्धान्कृतान्समयवर्धितान्
क्रीतान्कन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत्। `ते च षड्वन्धुदायादाः षडदायादबान्धवाः
धर्मकृत्यवहा नॄणां मनसः प्रीतिवर्धनाः। त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन्
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि। तस्मात्पुत्रं च सत्यं च पालयस्व महीपते
उभयं पालयस्वैतन्नानृतं वक्तुमर्हसि।' आत्मानं सत्यधर्मौ च पालयेथा महीपते। नरेन्द्रसिंह कपटं न हि वोढुं त्वमर्हसि
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः। वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम्
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्। अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम्। सत्यस्यैव च राजेन्द्र कलां नार्हति षोडशीम्
नास्ति सत्यसमो धर्मो न सत्याद्विद्यते परम्। न हि तीव्रतरं पापमनृतादिह विद्यते
राजन्सत्यं परो धर्मः सत्याच्च समयः परः। मात्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते
यः पापो न विजानीयात्कर्म कृत्वा नराधिप। न हि तादृक्परं पापमनृतादिह विद्यते
यस्य ते हृदयं वेद सत्यस्यैवानृतस्य च। कल्याणावेक्षणं तस्मात्कर्तुमर्हसि धर्मतः
यो न कामान्न च क्रोधान्न द्रोहादतिवर्तते। अमित्रं वापि मित्रं वा स एवोत्तमपूरुषः
अनृतश्चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम्। आश्रमं गन्तुमिच्छामि त्वादृशो नास्ति सङ्गतं
पुत्रत्वे शङ्कमानस्य त्वं बुद्ध्या निश्चयं कुरु। गतिः स्वरः स्मृतिः सत्वं शीलं विद्या च विक्रमः
धृष्णुप्रकृतिभावौ च आवर्ता रोमराजयः। समा यस्य यदा स्युस्ते तस्य पुत्रो न संशयः
सादृश्येनोद्धऋतं बिम्बं तव देहाद्विशांपते। तातेति भाषमाणं वै मा स्म राजन्वृथा कृथाः
ऋते च गर्दभीक्षीरात्पयः पास्यति मे सुतः।' ऋतेपि त्वां च दुष्यन्त शैलराजावतंसिकाम्। चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति
शकुन्तले तव सुतश्चक्रवर्ती भविष्यति। एवमुक्तं महेन्द्रेण भविष्यति न चान्यथा
साक्षित्वे बहवो ह्युक्ता देवदूतादयो मया। न ब्रुवन्ति तथा सत्यमुताहो नानृतं किल
असाक्षिणी मन्दबाग्या गमिष्यामि यथागतम्
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला। `तस्याः क्रोधसमुत्थोग्निः सधूमो मूर्ध्न्यदृश्यत
संनियम्यात्मनोऽङ्गेषु ततः क्रोधाग्निमात्मजम्। प्रस्थितैवानवद्याङ्गी सह पुत्रेण वै वनम्
अथान्तरिक्षे दुष्यन्तं वागुवाचाशरीरिणी। ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चाभिसंवृतम्
माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः। भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला
सर्वेभ्यो ह्यङ्गमङ्गेभ्यः साक्षादुत्पद्यते सुतः। आत्मा चैव सुतो नाम तेनैव तव पौरव
आहितं ह्यात्मनाऽऽत्मानं परिरक्ष इमं सुतम्। अनन्यां त्वं प्रतीक्षस्व मावमंस्थाः शकुन्तलाम्