स त्वं भुङ्क्ष्व महाराज सपुत्रः समुहृञ्जनः। नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः
विदुरेणाथ भीष्मेण द्रोणेन न महात्मना। तथा मया चाप्यसकृद्वार्यमाणो न बुध्यसे
वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् । पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान्
शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि। कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति
तत्तेऽहं कथयिष्यामि यथाश्रुतमरिन्दम। दुर्योधनेन संपृष्ट एतमर्थं पितामहः
दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितांस्तु महारथान् । शोकसंमूढहृदयो निशाकाले स्म कौरवः
पितामहं महाप्राज्ञं विनयोपगम्य ह। यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर
भवान्द्रोणश्च कर्णश्च कृपो द्रौणिस्तथैव च। कृतवर्मा च हार्दिक्यः काम्भोजश्च सुदक्षिणः
भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् । महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः
त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः। पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे
तत्र मे संशयो जातस्तत्त्वमाचक्ष्व पृच्छतः। यं समाश्रित्य कौन्तेय जयन्त्यस्मान्क्षणेक्षणे
शृणु राजन्वचो मह्यं यथा वक्ष्यामि कौरव। बहुशश्च मयोक्तोऽसि न च मे तत्त्वया कृतम्
क्रियतां पाण्डवैः सार्ध समो भरतसत्तम। एतत्क्षेममहं मन्ये पृथिव्यास्तव वा विभो
भुङ्क्ष्वेमां पृथिवीं राजन्भ्रातृभिः सहितः सुखी। दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान्
न च मे क्रोशतस्तात श्रुतवानसि वै पुरा। तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे
यश्च हेतुरवध्यत्वे तेकषामक्लिष्टकर्मणाम्। तं शृणुष्व महाबाहो मम कीर्तयतः प्रभो
नास्ति लोकेषु तद्भूतं भविता नो भविष्यति। यो जयेत्पाण्डवान्सर्वान्पालिताञ्छार्ङ्गधन्वना
यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः। पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम्
पुरा किल सुराः सर्वे ऋषयश्च समागताः । पितामहमुपासेदुः पर्वत गन्धमादने
तेषां मध्ये समासीनः प्रजापतिरपश्यत । विमानं प्रज्वलद्भासा स्थितं प्रवरमम्बरे
ध्यानेनावेद्य तद्ब्रह्मा कृत्वा च नियतोऽञ्जलिम् । नमश्चकार हृष्टात्मा पुरुषं परमेश्वरम्
ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् । स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम्
यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः । जगाद जगतः स्रष्टा परं परमधर्मवित्
विश्वावसुर्विश्वमूर्तिर्हि विश्वे विष्वक्सेनो विश्वकर्मा वशी च। विश्वेश्वरो वासुदेवोऽसि तस्मा- द्योगात्मानं देवतं त्वामुपैमि
जय विश्वमहादेव जय लोकहिते रत। जय योगीश्वर विभो जय योगपरावर
पद्मगर्भविशालाक्ष जय लोकेश्वरेश्वर। भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज
असङ्क्येयगुणाधार जय सर्वपरायण। नारायण सुदुष्पार जय शार्ङ्गधनुर्धर
जय सर्वगुणोपेत विश्वमूर्ते निरामय। विश्वेश्वर महाबाहो जय लोकार्थतत्पर
महोरगवराहाद्य हरिकेश विभो जय। हरिवासदिशामीश विश्ववासामिताव्यय
व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सत्त्क्रिय । असङ्ख्येयात्मभावज्ञ जय गम्भीर कामद