कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम्। व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः
शरविक्षतगात्रास्तु पाण्डपपुत्रा महारथाः। युद्धे सुमनसो भूत्वा जग्मुः स्वशिबिरं प्रति
पुरस्कृत्य महाराज भीमसेनघटोत्कचौ। पूजयन्तस्तदान्योन्यं मुदा परमया युताः
नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् । सिंहनादांश्च कुर्वन्तो विमिश्राञ्शङ्खनिः स्वनैः
विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् । घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष
प्रयाताः शिबिरायैव निशाकाले परंतप । दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च
मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः। ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि । प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः
भयं मे सुमहञ्जातं विस्मयश्चैव सञ्जय। श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम्
पुत्राणां च पराभावं श्रुत्वा सञ्जय सर्वशः। चिन्ता मे महती सूत भविष्यति कथं त्विति
ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम। तथा हि दृश्यते सर्वं दैवयोगेन सञ्जय
यत्र भीष्ममुखान्सर्वाञ्शस्त्रज्ञान्योधसत्तमान्। पाण्डवानामनीकेषु योधयन्ति प्रहारिणः
केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः । केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते
येन क्षयं न गच्छन्ति दिवि तारागणा इव। पुनःपुनर्न मृष्यामि हतं सैन्यं तु पाण्डवैः
मय्येव दण्डः पतति दैवात्परमदारुणः। यथाऽवध्याः पाण्डुसुता यथा वाध्याश्च मे सुताः
एतन्मे सर्वमाचक्ष्व याथातथ्येन सञ्जय । न हि पारं प्रपश्यामि दुःखस्यास्य कथंचन
समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः । पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम्
घातयिष्यति मे स्रवान्पुत्रान्भीमो न शंसयः। न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे
ध्रुवं विनाशः संप्राप्तः पुत्रामां मम सञ्जय। तस्मान्मे कारणं सूत शक्तिं चैव विशेषतः
पृच्छतो वै यथातत्त्वं सर्वमाख्यातुमर्हसि। दुर्योधनश्च यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे
भीष्मद्रोणौ कृपश्चैव सौबलश्च जयद्रथः । द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः
निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मानाम् । विमुखेषु महाप्राज्ञ मम पुत्रेषु सञ्जय
श्रृणु राजन्नवहितः श्रुत्वा चैवावधारय। नैव मन्त्रकृतं किंचिन्नैव मायां तथाविधाम्
न वै विभीषिकां कांचिद्राजन्कुर्वन्ति पाण्डवाः । युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे
धर्मेण सर्वकार्याणि जीवितादीनि भारत। आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः
न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः । श्रिया परमया युक्ता यतो धर्मस्ततो जयः
तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव । तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा
निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे। सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वरे
निकृतानीह पाण्डूनां नीचैरिव यथा नरैः । सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम्
धर्ममूलाः सदैवासन्पाण्डवाः पाण्डुपूर्वज। न चैतान्बहुमन्यन्ते पुत्रास्तव विशांपते
तस्य पापस्य सततं क्रियमाणस्य कर्मणः। सांप्रतं सुमहद्धोरं फलं प्राप्तं जनेश्वर