उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत्। तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः
पञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान्। तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान्
ननाद सुमहानादं विस्फोटमशनेरिव । तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः
भीष्मः शान्तनवो भूयो भारद्वाजमभाषत । न रोचते मे संग्रामो हैडिम्बेन दुरात्मना
बलवीर्यमसाविष्टः ससहायश्च सांप्रतज् । नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम्
लब्धलक्षः प्रहारी च वयं च श्रान्तवाहनाः। पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः
इदानीं युधि निर्जेतुं न शक्योऽसौ स राक्षसः । अस्तमभ्येति सविता रात्रौ योद्धुं कन शक्यते। अवहारमतः कुर्मः श्वो योत्स्यामः परै सह
पितामहवचः श्रुत्वा यथा चक्रुःस्म कौरवाः । उपायेनापयानं ते घटोत्कचभयार्दिताः
कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः। सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च भारत
एवं तदभवद्युद्धं दिवसं भरतर्षभ । पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम्
कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम्। व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः
शरविक्षतगात्रास्तु पाण्डपपुत्रा महारथाः। युद्धे सुमनसो भूत्वा जग्मुः स्वशिबिरं प्रति
पुरस्कृत्य महाराज भीमसेनघटोत्कचौ। पूजयन्तस्तदान्योन्यं मुदा परमया युताः
नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् । सिंहनादांश्च कुर्वन्तो विमिश्राञ्शङ्खनिः स्वनैः
विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् । घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष
प्रयाताः शिबिरायैव निशाकाले परंतप । दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च
मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः। ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि । प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः
भयं मे सुमहञ्जातं विस्मयश्चैव सञ्जय। श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम्
पुत्राणां च पराभावं श्रुत्वा सञ्जय सर्वशः। चिन्ता मे महती सूत भविष्यति कथं त्विति
ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम। तथा हि दृश्यते सर्वं दैवयोगेन सञ्जय
यत्र भीष्ममुखान्सर्वाञ्शस्त्रज्ञान्योधसत्तमान्। पाण्डवानामनीकेषु योधयन्ति प्रहारिणः
केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः । केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते
येन क्षयं न गच्छन्ति दिवि तारागणा इव। पुनःपुनर्न मृष्यामि हतं सैन्यं तु पाण्डवैः
मय्येव दण्डः पतति दैवात्परमदारुणः। यथाऽवध्याः पाण्डुसुता यथा वाध्याश्च मे सुताः
एतन्मे सर्वमाचक्ष्व याथातथ्येन सञ्जय । न हि पारं प्रपश्यामि दुःखस्यास्य कथंचन
समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः । पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम्
घातयिष्यति मे स्रवान्पुत्रान्भीमो न शंसयः। न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे
ध्रुवं विनाशः संप्राप्तः पुत्रामां मम सञ्जय। तस्मान्मे कारणं सूत शक्तिं चैव विशेषतः
पृच्छतो वै यथातत्त्वं सर्वमाख्यातुमर्हसि। दुर्योधनश्च यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे
भीष्मद्रोणौ कृपश्चैव सौबलश्च जयद्रथः । द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः