एवमुक्त्वा ततः सर्वे धार्तराष्ट्रस्य सैनिकाः। अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम्
भगदत्तः प्रभिन्नेन कुञ्जरेण विशांपते । अभ्ययात्सहसा तत्रयत्र भीमो व्यवस्थितः
आपतन्नेव च रणे भीमसेनं शिलीमुखैः । अदृश्यं समरे चक्रे जीमूत इव भास्करम्
अभिमन्युमुखास्तत्तु नामृष्यन्त महारथाः । भीमस्याच्छादनं शङ्ख्ये स्वबाहुबलमाश्रिताः
त एनं शरवर्षेण समन्तात्पर्यवारयन् । गजं च शरवृष्ट्या तु बिभिदुस्ते समन्ततः
स शस्त्रवृष्ट्याऽभिहतः समस्तैस्तैर्महारथैः। प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः
संजातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे। गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान्
संचोदितो मदस्रावी भगदत्तेन वारणः। अभ्यधावत तन्सर्वान्कालोत्सृष्ट इवान्तकः
द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम्। तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः
असह्यं मन्यमानाश्च नातिप्रमनसोऽभवन् । ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे
आजघान महाराज शरेणानतपर्वणा। सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः
मूर्च्छयाऽभिपरीतात्मा ध्वजयष्टिं समाश्रयत्। तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्च्छितम्
ननाद बलवन्नादं भगदत्तः प्रतापवान्। ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथाऽऽगतं
संक्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत। स कृत्वा दारुणां मायां भूरूणां भयवर्धिनीम्
अदृश्यत निमेषार्धाद्धोररूपं समास्थितः। ऐरावतं समारूढः स वै मायाकृतं स्वयम्
तस्य चान्येऽपि दिङ्वागा बभूवुरनुयायिनः। अञ्जनो वमानश्चैव महापद्मश्च सुप्रभः
त्रय एते महानागा राक्षसैः समधिष्ठिताः। महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु
तेजोवीर्यबलोपेता महाबलपराक्रमाः। घटोत्कचस्तु स्वं नागं चोदयामास तं तदा
सगजं भगदत्तं तु हन्तुकामः परंतपः। ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः
परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम्। भगदत्तस्य तं नागं विषाणैरभ्यपीडयन्
स पीड्यमानस्तैर्नागैर्वेदनार्तः शराहतः। अनदत्सुमहानादमिन्द्राशनिसमस्वनम्
व्यवर्तत महाघोषो भैमसेनिशरार्दितः । मृदित्वा सर्वसैन्यानि तव पुत्रस्य भारत
तस्य तं नदतो नादं सुघोरं भीमनिःश्वनम् । श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम्
एष युध्यति संग्रामे हैडिम्बेन दुरात्मना। भगदत्तो महेष्वासः कृच्छ्रे च परिवर्तते
राक्षसश्च महामायः स च राजाऽतिकोपनः । एतौ समेतौ समरे कालमृत्युसमावुभौ
श्रीयते चैव हृष्टानां पाण्डवानां महास्वनः । हस्तिनश्चैव सुमहान्भीतस्य रुदितध्वनिः
तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् । अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यति
ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे । महान्हि वर्तते रौद्रः संग्रामो रोमहर्षणः
भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः। युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युत
भीष्मस्य तद्वचः श्रुत्वा सर्व एव महारथाः । द्रोणभीष्मौ पुरस्कृत्य भगदत्तपरीप्सया