अभिपत्य महाबाहुर्गरुत्मानिव वेगितः। सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः
संप्रहस्य च हृष्टात्मा त्रिभिर्बाणैर्महाभुजः । जलसन्धं विनिर्भिद्य सोऽनयद्यमसादनम्
सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे। उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि
पातयामास भल्लेन कुण्डलाभ्यां विभूषितम्। वीरबाहुं च सप्तत्या साश्वकेतुं ससारथिम्
निनाय समरे वीरः परलोकाय पाण्डवः। भीमं भीमरथं चोभौ भीमसेनो हसन्निव
पुत्रौ ते दुर्मदौ राजन्ननयद्यमसादनम् । ततः सुलोचनं भीमः क्षुरप्रेण महामृधे
मिषतां सर्वसैन्यानामनयद्यमसादनम्। पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम्
शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः। विप्रद्रुता दिशो राजन्वध्यमाना महात्मना
ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान्। एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान्
यथा प्राग्र्यान्यथा ज्येष्ठान्यथा शूरांश्च संगतान्। निपातयत्युग्रधन्वा तं प्रगृह्णीत माचिरम्
एवमुक्त्वा ततः सर्वे धार्तराष्ट्रस्य सैनिकाः। अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम्
भगदत्तः प्रभिन्नेन कुञ्जरेण विशांपते । अभ्ययात्सहसा तत्रयत्र भीमो व्यवस्थितः
आपतन्नेव च रणे भीमसेनं शिलीमुखैः । अदृश्यं समरे चक्रे जीमूत इव भास्करम्
अभिमन्युमुखास्तत्तु नामृष्यन्त महारथाः । भीमस्याच्छादनं शङ्ख्ये स्वबाहुबलमाश्रिताः
त एनं शरवर्षेण समन्तात्पर्यवारयन् । गजं च शरवृष्ट्या तु बिभिदुस्ते समन्ततः
स शस्त्रवृष्ट्याऽभिहतः समस्तैस्तैर्महारथैः। प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः
संजातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे। गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान्
संचोदितो मदस्रावी भगदत्तेन वारणः। अभ्यधावत तन्सर्वान्कालोत्सृष्ट इवान्तकः
द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम्। तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः
असह्यं मन्यमानाश्च नातिप्रमनसोऽभवन् । ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे
आजघान महाराज शरेणानतपर्वणा। सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः
मूर्च्छयाऽभिपरीतात्मा ध्वजयष्टिं समाश्रयत्। तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्च्छितम्
ननाद बलवन्नादं भगदत्तः प्रतापवान्। ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथाऽऽगतं
संक्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत। स कृत्वा दारुणां मायां भूरूणां भयवर्धिनीम्
अदृश्यत निमेषार्धाद्धोररूपं समास्थितः। ऐरावतं समारूढः स वै मायाकृतं स्वयम्
तस्य चान्येऽपि दिङ्वागा बभूवुरनुयायिनः। अञ्जनो वमानश्चैव महापद्मश्च सुप्रभः
त्रय एते महानागा राक्षसैः समधिष्ठिताः। महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु
तेजोवीर्यबलोपेता महाबलपराक्रमाः। घटोत्कचस्तु स्वं नागं चोदयामास तं तदा
सगजं भगदत्तं तु हन्तुकामः परंतपः। ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः
परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम्। भगदत्तस्य तं नागं विषाणैरभ्यपीडयन्