कौरवं सात्यकिश्चैव शरैः सन्नतपर्वभिः। अवारयदमेयात्मा सर्वलोकस्य पश्यतः
ततो दुर्योधनो राजा सोदर्यैः परिवारितः। सोमदत्तिं रणे यत्तः समन्तात्पर्यवारयत्
तं चैव पाण्डवाः सर्वे सात्यकिं रभसं रणे। परिवार्य स्थिताः सङ्ख्ये समन्तात्सुमहौजसः
भीमसेनस्तु संक्रुद्धो गजामुद्यम्य भारत । दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत्
रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः । नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम्
विव्याध विशिखैः षड्भिः कङ्कपत्रैः शिलाशितैः । दुर्योधनस्तदा राजन्भीमसेनं महारथम्
आजघानोरसि क्रुद्धो मार्गणैर्नवभिः शितैः । ततो भीमो महाबाहुः स्वरथं सुमहाबलः
आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् । एते महारथाः शूरा धार्तराष्ट्राः समागताः
मामेव भृशसंक्रुद्धा हन्तुमभ्युद्यता युधि। मनोरथद्रुमोऽस्माकं चिन्तितो बहुवार्षिकः
सफलः सूत चाद्येह योऽहं पश्यामि सोदरान्। यत्राशोकसमुत्क्षिप्ता रेणवो रथनेमिभिः
प्रयास्यन्त्यन्तरिक्षं हि शरबृन्दैर्दिगन्तरे । तत्र तिष्ठति सन्नद्धः स्वयं राजा सुयोधनः
भ्रातरश्चास्य सन्नद्धाः कुलपुत्रा मदोत्कटाः । एतानद्य हनिष्यामि पश्यतस्ते न संशयः
तस्मान्ममाश्वान्संग्रमे यत्तः संयच्छ सारथे। एवमुक्त्वा ततः पार्थस्तव पुत्रं विशांपते
विव्याध निशितैस्तीक्ष्णैः शरैः कनकभूषणैः। नन्दकं च त्रिभिर्भाणैरभ्यविध्यत्स्तनान्तरे
तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम्। त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत
भिमस्य च रणे राजन्धनुश्चिच्छेद भासुरम् । मुष्टिदेशे भृशं तीक्ष्णौस्त्रिभिर्भल्लैर्हसन्निव
समरे प्रेक्ष्य यन्तारं विशोकं तु वृकोदरः । पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना
अमृष्यमाणः संरब्धो धनुर्दिव्यं परामृशम् । पुत्रस्य ते महाराज वधार्थं भरतर्षभ
समादधत्सुसंक्रुद्धः क्षुरप्रं रोमवाहिनम् । तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम्
सोऽपविद्ध्य धनुश्छिन्नं पुत्रस्ते क्रोधमूर्च्छितः । अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम्
संदधे विशिखं घोर कालमृत्युसमप्रभम् । तेनाजघान संक्रुद्धो भीमसेनं स्तनान्तरे
स गाढविद्धो व्यथितः स्यान्दनोपस्थ आविशत्। स निषण्णो रथोपस्थे मूर्च्छामभिजगाम ह
तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः । नामृष्यन्त महेष्वासाः पाण्डवानां महारथः
ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् । पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि
प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः । दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः
शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः। रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात्
प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश । सेनापतिः सुषेणश्च जलसन्धः सुलोचनः
उद्रो भीमरथो भीमो वीरबाहुरलोलुपः । दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः
विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः । भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम्
पुत्रांस्तु तव संप्रेक्ष्य भीमसेनो महाबलः । सृक्किणी विलिहन्वीरः पशुमध्ये यथा वृकः