तं भीमसेनः समरे महोदधिमिवापरम् । सेनासागरमक्षोभ्यं वेलेव समवारयत्
तदाश्चर्यमपश्याम पाण्डवस्य महात्मनः । भीमसेनस्य समरे राजन्कर्मातिमानुषम्
उदीर्णान्पार्थिवान्सर्वान्साश्वान्सरथकुञ्जरान् । असंभ्रमं भीमसेनो गदया समवारयत्
स संवार्य बलौघांस्तन्गदया रथिनां वरः। अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः
तस्मिन्सुतुमुले घोरे काले परमदारुणे। भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः
द्रौपदेयाभिमन्युश्च शिखण्डी चापराजितः । न प्राजहन्भीमसेनं भये जाते महाबलम्
ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम्। अधावत्तावकान्योधान्दण्डपाणिरिवान्तकः
पोययन्रथबृन्दानि वाजिबृन्दनि चाभिभूः । कर्षयन्रथवृन्दानि बाहुवेगेन पाण्डवः
विनिध्रन्यचतत्सङ्ख्ये युगान्ते कालविद्विभुः । ऊरुवेगेन संकर्षन्रथजालानि पाण्डवः
बलानि संममर्दाशु नड्वलानीव कुञ्जरः । मृद्गन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः
सादिनश्चाश्वपृष्ठेभ्यो भूमौ वापि पदातिनः । गदया व्यवमत्सर्वान्वातो वृक्षानिवौजसा
भीमसेनो महाबाहुस्तव पुत्रस्य वै बले। सापि प्रञ्जानसामासैः प्रदिग्धा रुधिरेण च
अदृश्यत महारौद्रा गदा नागाश्वपातनी। तत्रतत्र हतैश्चापि मनुष्यगजवाजिभिः
रणाङ्गणं समभवन्मृत्योरावाससन्निभम् । पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून्
यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् । ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम्
आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः । बभौ रूपं महाघोरं कालस्येव युगक्षये
तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः । दृष्ट्वा मृत्युमवायान्तं सर्वे विमनसोऽभवन्
यतोयतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः। तेनतेन स्म दीर्यन्ते सर्वसैन्यानि भारत
प्रदारयन्तं सैन्यानि बलेनामितविक्रमम् । ग्रसमानमनीकानि व्यादितास्यमिवान्तकम्
तं तथा भीमकर्माणं प्रगृहीतमहागदम् । दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात्
महता रथघोषेण रथेनादित्यवर्चसा । छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान्
तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् । भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षितः
तस्मिन्क्षणे सात्यकिः सत्यसन्धः शिनिप्रवीरोऽभ्यपतत्पितामहम्। निघ्नन्नमित्रान्धनुषा दृढेन संकम्पयंस्तव पुत्रस्य सैन्यम्
तं यान्तमश्वै रजतप्रकाशैः शरान्वपन्तं निशितान्सुपुङ्खान्। नाशक्नवन्धारयितुं तदानीं सर्वे गणा भारत ये त्वदीयाः
अविध्यदेनं दशभिः पृषत्कैः- रलम्बुसो राक्षसोऽसौ तदानीम् । शरैश्चतुर्भिः प्रतिविद्ध्य तं च नप्ता शिनेरभ्यपतद्रथेन
अन्वागतं वृष्णिवरं निशम्य तं शत्रुमध्ये परिवर्तमानम्। प्रद्रावयन्तं कुरुपुङ्गवांश्च पुनः पुनश्च प्रणदन्तमाजौ
योधास्त्वदीयाः शरवर्षैरवर्ष- न्मेघा यथा भूधरमम्बुवेगैः । तथापि तं धारयितुं न शेकु- र्मध्यंदिने सूर्यमिवातपन्तम्
न तत्र कश्चिन्नविषण्ण आसी- दृते राजन्सोमदत्तस्य पुत्रात्। स वै समादाय धनुर्महात्मा भिरिश्रवा भारत सौमदत्तिः
दृष्ट्वा रथान्स्वान्व्यपनीयमाना- न्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन्
ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः। प्राविध्यद्भृशसंक्रुद्धस्तोत्रैरिव महाद्विपम्