एकप्रहारनिहतान्भीमसेनेन दन्तिनः। अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव
भग्नदन्तान्भग्नकरान्भग्नसक्थीश्च वारणान्। भग्नपृष्ठत्रिकानन्यान्निहतान्पर्वतोपमान्
नदतः सीदतश्चान्यान्विमुखान्समरे गतान्। विद्रुतान्भयसंविग्नांस्तथा विशकृतोऽपरान्
भीमसेनस्य मार्गेषु पतितान्पर्वतोपमान् । अपश्यं निहतान्नागान्राजन्निष्ठीवतोपरान्
वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः । विह्नलन्तो गता भूमिं शैला इव धरातले
मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः । व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः
गजानां रुधिरक्लिन्नां गदां बिभ्रद्वृकोदरः । घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकभृत्
संमथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः । सहसा प्राद्रवन्क्लिष्ठा मृद्गन्तस्तव वाहिनीम्
तं हि वीरं महेष्वासं सौभद्रप्रमुखा रथाः । पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः
शोणिताक्तां गदां बिभ्रदुक्षितां गजशोणितैः । कृतान्त इव रोद्रात्मा भीमसेनो व्यदृश्यत
व्यायच्छमानं गदया दिक्षु सर्वासु भारत। अपश्याम रणे भीमं नृत्यन्तमिव शङ्करम्
यमदण्डोपमां गुर्वीमिन्द्राशनिसमकस्वनाम् । अपश्याम महाराय रौद्रां विशसनीं गदाम्
विमिश्रां केशमञ्जाभिः प्रदिग्धां रुधिरेण च। पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून्
यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालयेत्। तथा भीमो गजानीकं गदया समकालयत्
गदया वध्यमानास्ते मार्गणैश्च समन्ततः। स्वान्यनीकानि मृद्गन्तः प्राद्रवन्कुञ्जरास्तव
महावात इवाभ्राणि विधमित्वा स वारणान्। अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत्
हते तस्मिन्गजानीके पुत्रो दुर्योधनस्तव। भीमसेनं ध्नतेत्येवं सर्वसैन्यान्यचोदयत्
ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात्। अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान्
तं बलौघमपर्यन्तं देवैरपि सुदुःसहम् । आपतन्तं सुदुष्पारं समुद्रिमिव पर्वणि
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् । अनन्तरथपादातं रजसा सर्वतो वृतम्
तं भीमसेनः समरे महोदधिमिवापरम् । सेनासागरमक्षोभ्यं वेलेव समवारयत्
तदाश्चर्यमपश्याम पाण्डवस्य महात्मनः । भीमसेनस्य समरे राजन्कर्मातिमानुषम्
उदीर्णान्पार्थिवान्सर्वान्साश्वान्सरथकुञ्जरान् । असंभ्रमं भीमसेनो गदया समवारयत्
स संवार्य बलौघांस्तन्गदया रथिनां वरः। अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः
तस्मिन्सुतुमुले घोरे काले परमदारुणे। भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः
द्रौपदेयाभिमन्युश्च शिखण्डी चापराजितः । न प्राजहन्भीमसेनं भये जाते महाबलम्
ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम्। अधावत्तावकान्योधान्दण्डपाणिरिवान्तकः
पोययन्रथबृन्दानि वाजिबृन्दनि चाभिभूः । कर्षयन्रथवृन्दानि बाहुवेगेन पाण्डवः
विनिध्रन्यचतत्सङ्ख्ये युगान्ते कालविद्विभुः । ऊरुवेगेन संकर्षन्रथजालानि पाण्डवः
बलानि संममर्दाशु नड्वलानीव कुञ्जरः । मृद्गन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः