अविध्येतां शरैस्तीक्ष्णैस्तदद्भुतमिवाभवत्। ततः शल्यो महाराज स्वस्त्रीयौ रथिनां वरौ
शरैर्बहुभिरानर्च्छत्कृतप्रतिकृतैषिणौ । छाद्यमानौ ततस्तौ कतु माद्रीपुत्रौ न चेलतुः
अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः । विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः
तमुद्यतगदं दृष्ट्वा कैलासमिव श्रृङ्गिणम्। भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात्
दुर्योधनस्तु संक्रुद्धो मागधं समचोदयत्। अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम्
गजानीकेन सहितस्तेन राजा सुयोधनाः । मागधं पुरतः कृत्वा भीमसेनं समभ्ययात्
आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः । गदापाणिरवारोहद्रथांत्सिंह इवोन्नदन्
अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम्। अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः
स गजान्गदया निघ्नन्व्यचरत्समरे बली। भीमसेनो महाबाहुः सवज्र इव वासवः
तस्य नादेन महता मनोहृदयकम्पिना । व्यत्यचेष्टन्त संहत्य गजा भिमस्य गर्जतः
ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः। नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः
पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान्। अभ्यवर्षन्त धावन्तो मेघा इव गिरिव्रजान्
नाकुलिस्तु शतानीकः समरे शत्रुपूगहा । क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैश्चाञ्जलिकैः शितैः। न्यहनच्चोत्तमाङ्गानि पाण्डवो गजयोधिनाम्
शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः । अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः
हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः। अदृश्यन्ताचलाग्रेकषु द्रुमा भग्नशिखा इव
धृष्टद्युम्नहतानन्यानपश्याम महागजान्। पततः पात्यमानांश्च पार्षतेन महात्मना
मागधोऽथ महीपालो गजमैरावणोपमम्। प्रेषयामास समरे सौभद्रस्य रथं प्रति
तमापतन्तं संप्रेक्ष्य मागधस्य महागजम् । जघानैकेषुणा वीरःत सौभद्रः परवीरहा
तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयः। राज्ञो रजतपुङ्खेन भल्लेनापाहरच्छिरः
विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः। व्यचरत्समरे मृद्गन्गजानिन्द्रो गिरीनिव
एकप्रहारनिहतान्भीमसेनेन दन्तिनः। अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव
भग्नदन्तान्भग्नकरान्भग्नसक्थीश्च वारणान्। भग्नपृष्ठत्रिकानन्यान्निहतान्पर्वतोपमान्
नदतः सीदतश्चान्यान्विमुखान्समरे गतान्। विद्रुतान्भयसंविग्नांस्तथा विशकृतोऽपरान्
भीमसेनस्य मार्गेषु पतितान्पर्वतोपमान् । अपश्यं निहतान्नागान्राजन्निष्ठीवतोपरान्
वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः । विह्नलन्तो गता भूमिं शैला इव धरातले
मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः । व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः
गजानां रुधिरक्लिन्नां गदां बिभ्रद्वृकोदरः । घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकभृत्
संमथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः । सहसा प्राद्रवन्क्लिष्ठा मृद्गन्तस्तव वाहिनीम्
तं हि वीरं महेष्वासं सौभद्रप्रमुखा रथाः । पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः
शोणिताक्तां गदां बिभ्रदुक्षितां गजशोणितैः । कृतान्त इव रोद्रात्मा भीमसेनो व्यदृश्यत