नान्तरं दृश्यते तत्र तयोश्च रथिनोस्तदा। मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत्
ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे। धनुश्चिच्छेद भल्लेन पीतेन निशितेन च
अथैनं शरवर्षेण च्छादयामास संयुगे। गिरिं जलागमे यद्वञ्जलदा जलवृष्टिभिः
अभिमन्युस्ततः क्रुद्धो धृष्टद्युम्ने च पीडिते । अभिदुद्राव वेगेन मद्रराजरथं प्रति
ततो मद्राधिपस्थं कार्ष्णिः प्राप्यातिकोपनः । आर्तायनिममेयात्मा विव्याध निशितैः शरैः
ततस्तु तावका राजन्परीप्सन्तोऽर्जुनं रणे। मद्रराजरथं तूर्णं परिवार्यावतस्थिरे
दुर्योधनो विकर्णश्च दुःशासनविविंशती। दुर्मर्षणो दुःसहश्च चित्रसेनोऽथ दुर्मुखः
सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत। एते मद्राधिपरथं पालयन्तः स्थिता रणे
तान्भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः । द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ
धार्तराष्ट्रान्दश रथान्दशैव प्रत्यवारयन् । नानारूपाणि शस्त्राणि विसृजन्तो विशांपते
अभ्यवर्तन्तं संहृष्टाः परस्परवधैषिणः। ते वै समेयुः संग्रामे राजन्दुर्मन्त्रिते तव
तस्मिन्दशरथे क्रुद्धे वर्तमाने महाभये। तावकानां परेषां वा प्रेक्षका रथिनोऽभवन्
शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः। अन्योन्यमभिनर्दन्तः संप्रहारं प्रचक्रिरे
ते तदा जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः । अन्योन्यमभिमर्दन्तः स्पर्धमानाः परस्परम्
अन्योन्यस्पर्धया राजञ्ज्ञातयः संगता मिथः । महास्राणि विमुञ्चन्तः समापेतुरमर्षिणः
दुर्योधनस्तु संक्रुद्धो धृष्टद्युम्नं महारणे । विव्याध निशितैर्बाणैश्चतुर्भिः समरे द्रुतम्
दुर्मर्षणश्च विंशत्या चित्रसेनश्च प?ञ्चभिः । दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः
विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा। तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः
एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् । सत्यव्रतं च समरे पुरुमित्रं च भारत
अभिमन्युरविध्यत्तु दशभिर्दशभिः शरैः। माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ
अविध्येतां शरैस्तीक्ष्णैस्तदद्भुतमिवाभवत्। ततः शल्यो महाराज स्वस्त्रीयौ रथिनां वरौ
शरैर्बहुभिरानर्च्छत्कृतप्रतिकृतैषिणौ । छाद्यमानौ ततस्तौ कतु माद्रीपुत्रौ न चेलतुः
अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः । विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः
तमुद्यतगदं दृष्ट्वा कैलासमिव श्रृङ्गिणम्। भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात्
दुर्योधनस्तु संक्रुद्धो मागधं समचोदयत्। अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम्
गजानीकेन सहितस्तेन राजा सुयोधनाः । मागधं पुरतः कृत्वा भीमसेनं समभ्ययात्
आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः । गदापाणिरवारोहद्रथांत्सिंह इवोन्नदन्
अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम्। अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः
स गजान्गदया निघ्नन्व्यचरत्समरे बली। भीमसेनो महाबाहुः सवज्र इव वासवः
तस्य नादेन महता मनोहृदयकम्पिना । व्यत्यचेष्टन्त संहत्य गजा भिमस्य गर्जतः