तं महौघमिवायान्तं स्वात्पतन्तमिवोरगम् । भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम्
दीप्यमानमिवादित्यं मत्तवारणविक्रमम् । अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः
तस्य पाञ्चालदायादः प्रतीपमभिधावतः। शितनिस्त्रिंशहस्तस्य शरावरणधारिणः
बाणवेगमतीतस्य तथाभ्याशमुपेयुषः । त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः
तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् । हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि
तं निहत्य गदाग्रेण स लेभे परमां मुदम्। पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः
तस्मिन्हते महेष्वासे शल्यपुत्रे महारथे । हाहाकारो महानासीत्तव सैन्यस्य मारिष
ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतामात्मजम् । अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम्
तौ तत्र समरे शूरौ समेतौ युद्धदुर्मदौ । ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा
ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा। आजघान त्रिभिर्बाणैस्तोत्रैरिव महाद्विपम्
तथैव पार्षतं शूरं शल्यः समितिशोभनः। आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत
दैवमेव परं मन्ये पौरुषादपि सञ्जय। यत्सैन्यं मम पुत्रस्य पाण्डुपुत्रेण वध्यते
नित्यं हि मामकांस्तात हतानेव हि शंससि। अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंशसि पाण्डवान्
विभग्नांश्च प्रनष्टांश्च नित्यं शंससि मामकान्।' हीनान्पुरुषकारेण मामकानद्य सञ्जय । पातितान्पात्यमानांश्च हतानेव च शंससि
युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति। पाण्डवा हि जयन्त्येव जीयन्ते चैव मामकाः
सोऽहं तीव्राणि दुःस्वानि दुर्योधनकृतानि च। श्रोष्यामि सततं तात दुःसहानि बहूनि च
तमुपायं न पश्यामि जीयेरन्येन पाण्डवान् । मामका विजयं युद्धे प्राप्नुयुर्येन सञ्जय
क्षयं मनुष्यदेहानां गजवाजिरथक्षयम्। श्रृणु राजन्स्थिरो भूत्वा तवैवापनयो महान्
धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः। पीडयामास संक्रुद्धो मद्राधिपतिमायसैःक
तत्राद्भुतमपश्याम पार्षस्य पराक्रमम् । न्यवारयत यस्तूर्णं शल्यं समितिशोभनम्
नान्तरं दृश्यते तत्र तयोश्च रथिनोस्तदा। मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत्
ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे। धनुश्चिच्छेद भल्लेन पीतेन निशितेन च
अथैनं शरवर्षेण च्छादयामास संयुगे। गिरिं जलागमे यद्वञ्जलदा जलवृष्टिभिः
अभिमन्युस्ततः क्रुद्धो धृष्टद्युम्ने च पीडिते । अभिदुद्राव वेगेन मद्रराजरथं प्रति
ततो मद्राधिपस्थं कार्ष्णिः प्राप्यातिकोपनः । आर्तायनिममेयात्मा विव्याध निशितैः शरैः
ततस्तु तावका राजन्परीप्सन्तोऽर्जुनं रणे। मद्रराजरथं तूर्णं परिवार्यावतस्थिरे
दुर्योधनो विकर्णश्च दुःशासनविविंशती। दुर्मर्षणो दुःसहश्च चित्रसेनोऽथ दुर्मुखः
सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत। एते मद्राधिपरथं पालयन्तः स्थिता रणे
तान्भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः । द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ
धार्तराष्ट्रान्दश रथान्दशैव प्रत्यवारयन् । नानारूपाणि शस्त्राणि विसृजन्तो विशांपते