ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् । प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च
तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् । व्यदृश्यत महच्चापं समरे युध्यतः परैः
स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः । ध्वजं सांयमनेश्वैव सोऽष्टाभिश्चिच्छिदे ततः
रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिन । शितेनोरगसंकाशां पत्रिणाभिजघान ताम्
शल्यस्य च महावेगानस्यतः समरे शरान्। `धनुश्चिच्छेद भल्लेन तीव्रवेगन फाल्गुनिः' जघानार्जुनदायादश्चतुर्भिश्चतुरो हयान्
भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः। नाभ्यवर्तन्तं संरब्धाः कार्ष्णेर्बाहुबलोदयात्
ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः । पञ्चविंशतिसाहस्रास्तव पुत्रेण चोदिताः
धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि। सह पुत्रं जिघांसन्तं परिवव्रुः किरीटिनम्
तौ तु तत्र पितापुत्रौ परिक्षिप्तौ महारथौ । ददर्श राजन्पाञ्चल्यः सेनापतिररिन्दम
स वारणरथोघानां सहस्रैर्बहुभिर्वृतः। वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः
पारावताश्वः स रथमास्थाय परवीरहा' धनुर्विष्फार्य संक्रुद्धो नोदयित्वा च वाहिनीम् । ययौ तं मद्रकानीकं केकयांश्च परंतप
तेन कीर्तिमता गुप्तमनीकं दृढधन्वना। संरब्धरथनागाश्वं योत्स्यमानमशोभत
सोऽर्जुनप्रमुखे यान्तं पाञ्चालकुलवर्धनः । त्रिभिः शारद्वतं बाणैर्जत्रदेशे समार्पयत्
ततः स मद्रकान्हत्वा दशैव दशभिः शरैः । पृष्ठरक्षं जघानाशु भल्लेन कृतवर्मणः
दमनं चापि दायादं पौरवस्य महात्मनः । जघान विमलाग्नेण नाराचेन परंतपः
ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् । अविध्यत्रिंशता बाणैर्दशभिश्चास्य सारथिम्
सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन्। भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम्
अथैनं पञ्चविंशत्या क्षिप्रमेव समार्पयत् । अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी
स हताश्वे रते तिष्ठन्ददर्श भरतर्षभ । पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः
स प्रगृह्य महाघोरं निस्त्रिंशवरमायसम् । पदातिस्तूर्णमानर्च्छद्रथस्यं पुरुषर्षभः
तं महौघमिवायान्तं स्वात्पतन्तमिवोरगम् । भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम्
दीप्यमानमिवादित्यं मत्तवारणविक्रमम् । अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः
तस्य पाञ्चालदायादः प्रतीपमभिधावतः। शितनिस्त्रिंशहस्तस्य शरावरणधारिणः
बाणवेगमतीतस्य तथाभ्याशमुपेयुषः । त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः
तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् । हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि
तं निहत्य गदाग्रेण स लेभे परमां मुदम्। पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः
तस्मिन्हते महेष्वासे शल्यपुत्रे महारथे । हाहाकारो महानासीत्तव सैन्यस्य मारिष
ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतामात्मजम् । अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम्
तौ तत्र समरे शूरौ समेतौ युद्धदुर्मदौ । ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा
ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा। आजघान त्रिभिर्बाणैस्तोत्रैरिव महाद्विपम्