महानुभावाश्च ततः प्रकाश- नालोक्य वीराः सहसाऽभिपेतुः । रथी रथेनाभिहतः ससूतः पपात साश्वः सरथः सकेतुः
गजो गजेनाभिहताः पपात पदातिना चाभिहतः पदातिः। आवर्तमानान्यभिवर्तमानै- र्घोरीकृतान्यद्भुतदर्शनानि
प्रासैश्च खङ्गैश्च समाहतानि सदश्वबृन्दानि सदश्वबृन्दैः। सुवर्णतारागणभूषितानि सूर्यप्रभाभानि शरावराणि
विदार्यमाणानि परश्वथैश्च प्रासैश्च स्वङ्गैश्च निपेतुरुर्व्याम्। गजैर्विषणापरगात्ररुग्णाः केचित्ससूता रथिनः प्रपेतुः
गजर्षभाश्चापि जगर्षभेण निपातिता बाणहताः पृथिव्याम्। गजौघवेगोद्धतसादितानां श्रुत्वा विषेदुः सहसा मनुष्याः
आर्तस्वनं सादिपदातियूनां विषाणगात्रावरताडितानाम् । संभ्रान्तनागाश्वरथे मुहूर्ते महाक्षये सादिपदातियूनाम्
महारथैः संपरिवार्यमाणं संदृश्य दूरात्कपिराजकेतुम् । तं पञ्चतालोच्छ्रिततालकेतुः सदश्ववेगाद्भुतवीर्ययानः
महास्त्रबाणाशनिदीप्तमन्तं किरीटिनं शान्तनवोऽभ्यधावत्। तथैव शक्रप्रतिमप्रभाव- मिन्द्रात्मजं द्रोणमुखा विसस्नुः
कृपश्च शल्यश्च विविंशतिश्च दुर्योधनः सौमदत्तिश्च राजन्। ततो रथानां प्रमुखादुपेत्य सर्वास्त्रिवित्काञ्चनचित्रवर्मा
जवेन शूरोऽभिससार सर्वां- स्तानर्जुनस्यात्मभवोऽभिमन्युः। तेषां महास्त्राणि महारथाना- मसह्यकर्मा विनिहत्य कार्ष्णिः
बभौ महामन्त्रहुतार्चिमाली सदोगतः सन्भगवानिवाग्निः । ततः स तूर्णं रुधिरोदफेनां कृत्वा नदीमाशु रणे रिपूणाम्
जगाम सौभद्रमतीत्य भीष्मो महारथं पार्थमदीनसत्वः । ततः प्रहस्याद्भुतविक्रमेण गाण्डीवमुक्तेन शिलाशितेन
विपाठजालेन महास्त्रजालं विनाशयामास किरीटमाली। तमुत्तमं सर्वधनुर्धराणा- मसक्तकर्मा कपिराजकेतुः
भीष्मं महात्माऽभिववर्ष तूर्णं शरौघजालैर्विमलैश्च भल्लैः। तथैव भीष्माहतमन्तरिक्षे महास्त्रजालं कपिराजकेतोः
तद्द्वैरथं भीष्मधनञ्जयाभ्याम्
द्रौणिर्भूरिश्रवाः शत्यश्चित्रसेनश्च मारिषः। पुत्रः सांयमनेश्चैव सौभद्रं पर्यवारयन्
संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः। पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा
नातिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे । बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे
तथा तमात्मजं युद्धे विक्रमन्तमरिन्दमम्। दृष्ट्वा पार्थः सुसंयत्तं सिंहनादमथानदत्
पीडयानं तु तत्सैन्यं पौत्रं तव विशांपते। दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन्
ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् । प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च
तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् । व्यदृश्यत महच्चापं समरे युध्यतः परैः
स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः । ध्वजं सांयमनेश्वैव सोऽष्टाभिश्चिच्छिदे ततः
रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिन । शितेनोरगसंकाशां पत्रिणाभिजघान ताम्
शल्यस्य च महावेगानस्यतः समरे शरान्। `धनुश्चिच्छेद भल्लेन तीव्रवेगन फाल्गुनिः' जघानार्जुनदायादश्चतुर्भिश्चतुरो हयान्
भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः। नाभ्यवर्तन्तं संरब्धाः कार्ष्णेर्बाहुबलोदयात्
ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः । पञ्चविंशतिसाहस्रास्तव पुत्रेण चोदिताः
धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि। सह पुत्रं जिघांसन्तं परिवव्रुः किरीटिनम्
तौ तु तत्र पितापुत्रौ परिक्षिप्तौ महारथौ । ददर्श राजन्पाञ्चल्यः सेनापतिररिन्दम
स वारणरथोघानां सहस्रैर्बहुभिर्वृतः। वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः