सर्वाः स्त्रियः परवशाः सर्वाः क्रोधसमाकुलाः। असत्योक्ताः स्त्रियः सर्वा न कण्वं वक्तुमर्हसि
मेनका निरनुक्रोशा वर्धकी जननी तव। यया हिमवतः पादे निर्माल्यवदुपेक्षिता
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव। विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः
सुषाव सुरनारी मां विश्वामित्राद्यथेष्टतः। अहो जानामि ते जन्म कुत्सितं कुलटे जनैः
मेनकाऽप्सरसां श्रेष्ठा महर्षिश्चापि ते पिता। तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिभाषसे
जातिश्चापि निकृष्टो ते कुलीनेति विजल्पसे। जनयित्वा त्वमुत्सृष्टा कोकिलेन परैर्भृता
अरिष्टैरिव दुर्बद्धिः कण्वो वर्धयिता पिता। अश्रद्धेयमिदं वाक्यं यत्त्वं जल्पसि तापसि
ब्रुवन्ती राजसान्निध्ये गम्यतां यत्र चेच्छसि। `सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च
यदिहेच्छसि भोगार्थं तापसि प्रतिगृह्यताम्। नाहं त्वां द्रष्टुमिच्छामि यथेष्टं गम्यतामितः
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि। आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम्। ममैवोद्रिच्यते जन्म दुष्यन्त तव जन्मतः
क्षितौ चरसि राजंस्त्वमन्तरिक्षे चराम्यहम्। आवयोरन्तरं पश्य मेरुसर्षपयोरिव
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च। भवनान्यनुसंयामि प्रभावं पश्य मे नृप
पुरा नरवरः पुत्र उर्वश्यां जनितस्तदा। आयुर्नाम महाराज तव पूर्वपितामहः
महर्षयश्च बहवः क्षत्रियाश्च परन्तपाः। अप्सरःसु ऋषीणां च मातृदोषो न विद्यते
सत्यश्चापि प्रवादोऽयं प्रवक्ष्यामि च ते नृप। निदर्शनार्थं न द्वेषाच्छ्रुत्वा तत्क्षन्तुमर्हसि
विरूपो यावदादर्शे नात्मनो वीक्षते मुखम्। मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम्
यदा तु रूपमादर्शे विरूपं सोऽभिवीक्षते। तदा ह्रीमांस्तु जानीयादन्तरं नेतरं जनम्
अतीव रूपसंपन्नो न कंचिदवमन्यते। अतीव जल्पन्दुर्वाचो भवतीह विहेतुकः
पांसुपातेन हृष्यन्ति कुञ्जरा मदशालिनः। तथा परिवदन्नन्यान्हृष्टो भवति दुर्मतिः
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव। सुनास्तिकोप्युद्विजते जनः किं पुनरास्तिकः
स्वयमुत्पाद्य पुत्रं वै सदृशं योऽवमन्यते। तस्य देवाः श्रियं घ्नन्ति तत्रैनं कलिराविशेत्
अभव्येऽप्यनृतेऽशुद्धे नास्तिके पापकर्मणि। दुराचारे कलिर्ह्याशु न कलिर्धर्मचारिषु
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः। अशुभं वाक्यमादत्ते पुरीषमिव सूकरः
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः। गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसि
आत्मनो दुष्टभावत्वं जानन्नीचोऽप्रसन्नधीः। परेषामपि जानाति स्वधर्मसदृशान्गुणान्
दह्यमानास्तु तीव्रेण नीचाः परयशोग्निना। अशक्तास्तद्गतिं गन्तुं ततो निन्दां प्रकुर्वते
अन्यान्परिवदन्साधुर्यथा हि परितप्यते। तथा परिवदन्नन्यान्हृष्टो भवति दुर्जनः
अपवादरता मूर्खा भवन्ति हि विशेषतः। नापवादरताः सन्तो भवन्ति स्म विशेषतः
अभिवाद्य यथा वृद्धान्साधुर्गच्छति निर्वृतिम्। एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः