वेगेन साऽतीव पृथुप्रवाहा परेतनागाश्वशरीररोधाः। नरेन्द्रमञ्जोच्छ्रितमांसपङ्काः प्रभूतरक्षोगणभूतसेविता
शिरःकपालाकुलकेशशाद्वला शरीरसङ्घातसहस्रवाहिनी । विशीर्णनानाकवचोर्मिसंकुला नराश्वनागास्थिनिकृत्तशर्करा
श्वकङ्कशालावृकगृध्रकाकैः क्रव्यादसङ्घैश्च तरक्षुभिश्च। उपेतकूलां ददृशुर्मनुष्याः क्रूरां महावैतरणीप्रकाशाम्
प्रवर्तितामर्जुनबाणसङ्घै- र्मेदोवसासृकप्रवहां सुभीमाम्। हतप्रवीरां च तथैव दृष्ट्वा सेनां कुरूणामथ फल्गुनेन
ते चेदिपाञ्चालकरूषमत्स्याः पार्थाश्च सर्वे सहिताः प्रणेदुः । जयप्रगल्भाःक पुरुषप्रवीराः संत्रासयन्तः कुरुवीरयोधान्
हतप्रवीराणि बलानि दृष्ट्वा किरीटिना शत्रुभयावहेन । वित्रास्य सेनां ध्वजिनीपतीनां सिंहो मृगाणामिव यूथसङ्घान्
विनेदतुस्तावतिहर्षयुक्तौ गाण्डीवधन्वा च जनार्दनश्च। ततो रविं संवृतरश्मिजालं दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः
तदैन्द्रमस्त्रं विततं च घोर- मसह्यमुद्वीक्ष्य युगान्तकल्पम् । अथापयानं कुरवः सभीष्माः सद्रोणदुर्योधनबाह्लिकाश्च
चक्रुर्निशां सन्धिगतां समीक्ष्य विभावसोर्लोहितरागयुक्ताम्। अवापय कीर्ति च यशश्च लोके विजित्य शत्रूंश्च धनंजयोऽपि
ययौ नरेन्द्रैः सहसोदरैश्च समाप्तकर्मा शिबिरं निशायाम्। ततः प्रजज्ञे तुमुलः कुरूणां निशामुखे घोरतमः प्रणादः
रणे रथानामयुतं निहत्य हता गजाः सप्तशतार्जुनेन । प्राज्याश्च सौवीरगणाश्च सर्वे निपातिताः क्षुद्रकमालवाश्च
महत्कृतं कर्म धनञ्जयेन कर्तुं यथा नार्हति कश्चिदन्यः। श्रुतायुरम्बष्ठपतिश्च राजा तथैव दुर्मर्षणचित्रसेनौ
द्रोणः कृपः सैन्धवबाह्लिकौ च भूरिश्रवाः शल्यशलौ च राजन्। अन्ये च योधाः शतशः समेताः क्रुद्धेन पार्थेन रणस्य मध्ये
स्वबाहुवीर्येण जिताः सभीष्माः किरीटिना लोकमहारथेन। इति ब्रुवन्तः शिबिराणि जग्मुः सर्वे गणा भारत ये त्वदीयाः
उल्कासहस्रैश्च सुसंप्रदीप्तै- र्विभ्राजमानैश्च तथा प्रदीप्रैः। किरीटिवित्रासितसर्वयोधा चक्रे निवेशं ध्वजिनी कुरूणाम्
व्युष्टां निशां भारत भारताना- मनीकिनीनां प्रमुखे महात्मा। ययौ सपत्नान्प्रति जातकोपो वृतः समग्रेण बलेन भीष्मः
तं द्रोणदुर्योधनबाह्लिकाश्च तथैव दुर्मर्षणचित्रसेनौ। जयद्रथश्चातिबलो बलौघै- र्नृपास्तथान्ये प्रययुः समन्तात्
स तैर्महद्भिश्च महारथैश्च तेजस्विभिर्वीर्यवद्भिश्च राजन्। रराज राजा स तु राजमुख्यै- र्वृतः सदेवैरिव वज्रपाणिः
तस्मिन्ननीकप्रमुखे विषक्ता दोधूयमानाश्च महापताकाः । सुरक्तपीतासितपाण्डुराभा महागजस्कन्धगता विरेजुः
सा वाहिनी शान्तनवेन गुप्ता महारथैर्वारणवाजिभिश्च। बभौ सविद्युत्स्तनयित्नुकल्पा जलागमे द्यौरिव जातमेघा
ततो रणायाभिमुखी प्रयाता प्रत्यर्जुनं शान्तनवाभिगुप्ता। सेनामहोग्ना सहसा कुरूणां वेगो यथा भीम इवापगायाः
तं व्यालनानाविधगूढसारं गजाश्वपादातरथौघपक्षम्। व्यूहं महामेघसमं महात्मा ददर्श दूरात्कपिराजकेतुः
विनिर्ययौ केतुमता रथेन नरर्षभः श्वेतहयेन काले। ` जये धृतः शत्रुवरूथिनीनां यथा सुरेन्द्रोऽसुरवाहिनीनाम्
नारायणेनेन्द्र इवाभिगुप्तः शशीव सूर्येण समेयिवान्यथा । तथा महात्मा सह केशवेन वरीथिनीनां प्रमुखे रराज
सोपस्करं सोत्तरबन्धुरेषं यत्तं यदूनामृषभेण सङ्ख्ये। कपिध्वजं प्रेक्ष्य रथं विषेदुः सहैव पुत्रैस्तव कौरवेयाः
प्रकल्पितं गुप्तमुदायुधेन किरीटिना लोकमहारथेन । तं व्यूहराजं ददृशुस्त्वदीया- श्चतुश्चतुर्व्यालसहस्रकीर्णम्
यथैव पूर्वेऽहनि धर्मराज्ञा व्यूहः कृतः कौरवसत्तमेन। यथा न भूतो भुवि मानुषेषु न दृष्टपूर्वो न च संश्रुतश्च
ततो यथादेशमुपेत्य तस्थुः पाञ्चालमुख्याः सह चेदिमुख्यैः। ततः समादेशसमाहतानि भेरीसहस्राणि विनेदुराजौ
शङ्खस्वनास्तूर्यरवाः प्रणेदुः सर्वेष्वनीकेषु ससिंहनादाः। ततः सबाणानि महास्वनानि विस्फार्यमाणानि धनूंषि वीरैः
क्षणेन भेरीपणवप्रणादा- नन्तर्दधुः शङ्खमहास्वनांश्च। तच्छङ्खशब्दावृतमन्तरिक्ष- मुद्धूतभौमद्रुतरेणुजालम्