शिलीमुखाः पार्थधनुःप्रमुक्ता रथान्ध्वजाग्राणि धनूंषि बाहून् । निकृत्य देहान्विविशुः परेषां नरेन्द्रनागेन्द्रतुरङ्गमाणाम्
ततो दिशः सोऽनुदिशश्च पार्थः शरैः सुधारैः समरे वितत्य । गाण्डीवशब्देन मनांसि तेषां किरीटमाली व्यथयांचकार
तस्मिंस्तथा घोरतमे प्रवृत्ते शङ्खस्वना दुन्दुभिनिःस्वनाश्च। अन्तर्हिता गाण्डिवनिःस्वनेन बभूवुरुग्राश्वरथप्रणादाः
गाण्डीवशब्दं तमथो विदित्वा विराटराजप्रमुखाः प्रवीराः। पाञ्चालराजो द्रुपदश्च वीर- स्तं देशमाजग्मुरदीनसत्त्वाः
सर्वाणि सैन्यानि तु तावकानि यतोयतो गाण्डिवजः प्रणादः । ततस्ततः सन्नतिमेव जग्मु- र्न तं प्रतीपोऽभिससार कश्चित्
तस्मिन्सुघोरे कनृप संप्रहारे हताः प्रवीराः सरथाश्वसूताः। गजाश्च नाराचनिपाततप्ता महापताकाः शुभरुक्मकक्ष्याः
परीतसत्वाः सहसा निपेतुः किरीटिना भिन्नतनुत्रकायाः । दृढं हताः पात्रिभिरुग्रवेगैः पार्थेन भल्लैर्विमलैः शिताग्नैः
निकृत्तयन्त्रा निहतेन्द्रकीला ध्वजा महान्तो ध्वजिनिमुखेषु। पदातिसङ्घाश्च रथाश्च सङ्ख्ये हयाश्च नागाश्च धनञ्जयेन
बाणाहतास्तूर्णमपेतसत्वा विष्टभ्य गात्राणि निपेतुरुर्व्याम् । ऐन्द्रेण तेनास्त्रवरेण राजन् महाहवे भिन्नतनुत्रदेहाः
ततः शरौघैर्निशितैः किरीटिना नृदेहशस्त्रक्षतलोहितोदा। नदी सुघोरा नरमेदफेना प्रवर्तिता तत्र रणाजिरे वै
वेगेन साऽतीव पृथुप्रवाहा परेतनागाश्वशरीररोधाः। नरेन्द्रमञ्जोच्छ्रितमांसपङ्काः प्रभूतरक्षोगणभूतसेविता
शिरःकपालाकुलकेशशाद्वला शरीरसङ्घातसहस्रवाहिनी । विशीर्णनानाकवचोर्मिसंकुला नराश्वनागास्थिनिकृत्तशर्करा
श्वकङ्कशालावृकगृध्रकाकैः क्रव्यादसङ्घैश्च तरक्षुभिश्च। उपेतकूलां ददृशुर्मनुष्याः क्रूरां महावैतरणीप्रकाशाम्
प्रवर्तितामर्जुनबाणसङ्घै- र्मेदोवसासृकप्रवहां सुभीमाम्। हतप्रवीरां च तथैव दृष्ट्वा सेनां कुरूणामथ फल्गुनेन
ते चेदिपाञ्चालकरूषमत्स्याः पार्थाश्च सर्वे सहिताः प्रणेदुः । जयप्रगल्भाःक पुरुषप्रवीराः संत्रासयन्तः कुरुवीरयोधान्
हतप्रवीराणि बलानि दृष्ट्वा किरीटिना शत्रुभयावहेन । वित्रास्य सेनां ध्वजिनीपतीनां सिंहो मृगाणामिव यूथसङ्घान्
विनेदतुस्तावतिहर्षयुक्तौ गाण्डीवधन्वा च जनार्दनश्च। ततो रविं संवृतरश्मिजालं दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः
तदैन्द्रमस्त्रं विततं च घोर- मसह्यमुद्वीक्ष्य युगान्तकल्पम् । अथापयानं कुरवः सभीष्माः सद्रोणदुर्योधनबाह्लिकाश्च
चक्रुर्निशां सन्धिगतां समीक्ष्य विभावसोर्लोहितरागयुक्ताम्। अवापय कीर्ति च यशश्च लोके विजित्य शत्रूंश्च धनंजयोऽपि
ययौ नरेन्द्रैः सहसोदरैश्च समाप्तकर्मा शिबिरं निशायाम्। ततः प्रजज्ञे तुमुलः कुरूणां निशामुखे घोरतमः प्रणादः
रणे रथानामयुतं निहत्य हता गजाः सप्तशतार्जुनेन । प्राज्याश्च सौवीरगणाश्च सर्वे निपातिताः क्षुद्रकमालवाश्च
महत्कृतं कर्म धनञ्जयेन कर्तुं यथा नार्हति कश्चिदन्यः। श्रुतायुरम्बष्ठपतिश्च राजा तथैव दुर्मर्षणचित्रसेनौ
द्रोणः कृपः सैन्धवबाह्लिकौ च भूरिश्रवाः शल्यशलौ च राजन्। अन्ये च योधाः शतशः समेताः क्रुद्धेन पार्थेन रणस्य मध्ये
स्वबाहुवीर्येण जिताः सभीष्माः किरीटिना लोकमहारथेन। इति ब्रुवन्तः शिबिराणि जग्मुः सर्वे गणा भारत ये त्वदीयाः
उल्कासहस्रैश्च सुसंप्रदीप्तै- र्विभ्राजमानैश्च तथा प्रदीप्रैः। किरीटिवित्रासितसर्वयोधा चक्रे निवेशं ध्वजिनी कुरूणाम्
व्युष्टां निशां भारत भारताना- मनीकिनीनां प्रमुखे महात्मा। ययौ सपत्नान्प्रति जातकोपो वृतः समग्रेण बलेन भीष्मः
तं द्रोणदुर्योधनबाह्लिकाश्च तथैव दुर्मर्षणचित्रसेनौ। जयद्रथश्चातिबलो बलौघै- र्नृपास्तथान्ये प्रययुः समन्तात्
स तैर्महद्भिश्च महारथैश्च तेजस्विभिर्वीर्यवद्भिश्च राजन्। रराज राजा स तु राजमुख्यै- र्वृतः सदेवैरिव वज्रपाणिः
तस्मिन्ननीकप्रमुखे विषक्ता दोधूयमानाश्च महापताकाः । सुरक्तपीतासितपाण्डुराभा महागजस्कन्धगता विरेजुः
सा वाहिनी शान्तनवेन गुप्ता महारथैर्वारणवाजिभिश्च। बभौ सविद्युत्स्तनयित्नुकल्पा जलागमे द्यौरिव जातमेघा