शल्यं च विद्ध्वा नवभिः पृषत्कै- र्दुर्योधं वक्षसि निर्बिभेद।' विनादयामास ततो दिशश्च स पाञ्चजन्यस्य रवेण शौरिः
व्याविद्धनिष्काङ्गदकुण्डलं तं रजोविकीर्णाञ्चितपद्मनेत्रम् । विशुद्धदंष्ट्रं प्रगृहीतशङ्खं विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः
मृदङ्गभेरीपणवप्रणादा नेमिस्वना दुन्दुभिनिःस्वनाश्च। ससिंहनादाश्च बभूवुरुग्राः सर्वेष्वनीकेषु ततः कुरूणाम्
गाण्डीवघोषः स्तनयित्नुकल्पो जगाम पार्थस्य नभो दिशश्च। जग्मुश्च बाणा विमलाः प्रसन्नाः सर्वा दिशः पाण्डवचापमुक्ताः
तं कौरवाणामधिपो जवेन भीष्मेण भूरिश्रवसा च सार्धम्। अभ्युद्ययावुद्यतबाणपाणिः कक्षं दिधक्षन्निव धूमकेतुः
अथार्जुनाय प्रजिघाय भल्लान् भूरिश्रवाः सप्त सुवर्णपुङ्खान्। दुर्योदनस्तोमरमुग्रवेगं शल्यो गदां शान्तनवश्च शक्तिम्
स सप्तभिः सप्त शरप्रवेकान् संवार्य भीरिश्रवसा विसृष्टान् । शितेन दुर्योधनबाहुमुक्तं क्षुरेण तत्तोमरमुन्ममाथ
ततः शुभामापततीं स शक्तिं विद्युत्प्रभां शान्तनवेन मुक्ताम्। गदां च मद्राधिपबाहुमुक्तां द्वाभ्यां शराभ्यां निचर्त वीरः
ततो भुजाभ्यां बलवद्विकृष्य चित्रं धनुर्गाण्डिवमप्रमेयम् । माहेन्द्रमस्रं विधिवत्सुघोरं प्रादुश्चकाराद्भुतमन्तरिक्षे
तेनोत्तमास्त्रेण ततो महात्मा सर्वाण्यनीकानि महाधनुष्मान्। शरौघजालैर्विमलाग्निवर्णै- र्निवारयामास किरीटमाली
शिलीमुखाः पार्थधनुःप्रमुक्ता रथान्ध्वजाग्राणि धनूंषि बाहून् । निकृत्य देहान्विविशुः परेषां नरेन्द्रनागेन्द्रतुरङ्गमाणाम्
ततो दिशः सोऽनुदिशश्च पार्थः शरैः सुधारैः समरे वितत्य । गाण्डीवशब्देन मनांसि तेषां किरीटमाली व्यथयांचकार
तस्मिंस्तथा घोरतमे प्रवृत्ते शङ्खस्वना दुन्दुभिनिःस्वनाश्च। अन्तर्हिता गाण्डिवनिःस्वनेन बभूवुरुग्राश्वरथप्रणादाः
गाण्डीवशब्दं तमथो विदित्वा विराटराजप्रमुखाः प्रवीराः। पाञ्चालराजो द्रुपदश्च वीर- स्तं देशमाजग्मुरदीनसत्त्वाः
सर्वाणि सैन्यानि तु तावकानि यतोयतो गाण्डिवजः प्रणादः । ततस्ततः सन्नतिमेव जग्मु- र्न तं प्रतीपोऽभिससार कश्चित्
तस्मिन्सुघोरे कनृप संप्रहारे हताः प्रवीराः सरथाश्वसूताः। गजाश्च नाराचनिपाततप्ता महापताकाः शुभरुक्मकक्ष्याः
परीतसत्वाः सहसा निपेतुः किरीटिना भिन्नतनुत्रकायाः । दृढं हताः पात्रिभिरुग्रवेगैः पार्थेन भल्लैर्विमलैः शिताग्नैः
निकृत्तयन्त्रा निहतेन्द्रकीला ध्वजा महान्तो ध्वजिनिमुखेषु। पदातिसङ्घाश्च रथाश्च सङ्ख्ये हयाश्च नागाश्च धनञ्जयेन
बाणाहतास्तूर्णमपेतसत्वा विष्टभ्य गात्राणि निपेतुरुर्व्याम् । ऐन्द्रेण तेनास्त्रवरेण राजन् महाहवे भिन्नतनुत्रदेहाः
ततः शरौघैर्निशितैः किरीटिना नृदेहशस्त्रक्षतलोहितोदा। नदी सुघोरा नरमेदफेना प्रवर्तिता तत्र रणाजिरे वै
वेगेन साऽतीव पृथुप्रवाहा परेतनागाश्वशरीररोधाः। नरेन्द्रमञ्जोच्छ्रितमांसपङ्काः प्रभूतरक्षोगणभूतसेविता
शिरःकपालाकुलकेशशाद्वला शरीरसङ्घातसहस्रवाहिनी । विशीर्णनानाकवचोर्मिसंकुला नराश्वनागास्थिनिकृत्तशर्करा
श्वकङ्कशालावृकगृध्रकाकैः क्रव्यादसङ्घैश्च तरक्षुभिश्च। उपेतकूलां ददृशुर्मनुष्याः क्रूरां महावैतरणीप्रकाशाम्
प्रवर्तितामर्जुनबाणसङ्घै- र्मेदोवसासृकप्रवहां सुभीमाम्। हतप्रवीरां च तथैव दृष्ट्वा सेनां कुरूणामथ फल्गुनेन
ते चेदिपाञ्चालकरूषमत्स्याः पार्थाश्च सर्वे सहिताः प्रणेदुः । जयप्रगल्भाःक पुरुषप्रवीराः संत्रासयन्तः कुरुवीरयोधान्
हतप्रवीराणि बलानि दृष्ट्वा किरीटिना शत्रुभयावहेन । वित्रास्य सेनां ध्वजिनीपतीनां सिंहो मृगाणामिव यूथसङ्घान्
विनेदतुस्तावतिहर्षयुक्तौ गाण्डीवधन्वा च जनार्दनश्च। ततो रविं संवृतरश्मिजालं दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः
तदैन्द्रमस्त्रं विततं च घोर- मसह्यमुद्वीक्ष्य युगान्तकल्पम् । अथापयानं कुरवः सभीष्माः सद्रोणदुर्योधनबाह्लिकाश्च
चक्रुर्निशां सन्धिगतां समीक्ष्य विभावसोर्लोहितरागयुक्ताम्। अवापय कीर्ति च यशश्च लोके विजित्य शत्रूंश्च धनंजयोऽपि
ययौ नरेन्द्रैः सहसोदरैश्च समाप्तकर्मा शिबिरं निशायाम्। ततः प्रजज्ञे तुमुलः कुरूणां निशामुखे घोरतमः प्रणादः