श्रुतायुरम्बष्ठपतिश्च राजा विन्दानुविन्दौ च सुदक्षिणश्च। प्राच्याश्च सौवीरगणाश्च सर्वे वसातयः क्षुद्रकमालवाश्च
किरीटिनं त्वरमाणाभिस्रु- र्निदेशगाः शान्तनवस्य राज्ञः। तं वाजिपादातरथौघजालै- रनेकसाहस्रशतैर्ददर्श
किरीटिनं संपरिवार्यमाणं शिनेर्नप्ता वारणयूथपैश्च। ततस्तु दृष्ट्वार्जुनवासुदेवौ पदातिनागाश्वरथैः समन्तात्
अभिद्रुतौ शस्त्रभृतां वरिष्ठौ शिनिप्रवीरोऽभिससार तूर्णम्। स तान्यनीकानि महाधनुष्मान् शिनिप्रवीरः सहसाऽभिपत्य
चकार साहाय्यमथार्जुनस्य विष्णुर्यथा वृत्रनिषूदनस्य। विशीर्णनागाश्वरथध्वजौघं भीष्मेण वित्रासितसर्वयोधम्
युधिष्ठिरानीकमभिद्रवन्तं प्रोवाच संदृश्य शिनिप्रवीरः । क्व क्षत्रिया यास्यथ नैष धर्मः सतां पुरस्तात्कथितः पुराणैः
मा स्वां प्रतिज्ञां त्यजत प्रवीराः स्वं वीरधर्मं परिपालयध्वम्। तान्वासवानन्तरजो निशाम्य नरेन्द्रमुख्यान्द्रवतः समन्तात्
पार्थस्य दृष्टवा मृदुयुद्धातां च भीष्मं च सङ्ख्ये समुदीर्यमाणम्। अमृष्यमाणः स ततो महात्मा यशस्विनं सर्वदशार्हभर्ता
उवाच शैनेयमभिप्रशंसन् दृष्ट्वा कुरूनापततः समग्रान्। ये यान्ति ते यान्तु शिनिप्रवीर येऽपि स्थिताः सात्वत तेऽपि यान्तु
भीष्मं रथात्पश्य निपात्यमानं द्रोणं च सङ्ख्ये सगणं मयाऽद्य। न सारथेः सात्वत कौरवाणां क्रुद्धस्य मुच्येत रणेऽद्य कश्चित्
तस्मादहं गृह्य रथाङ्गमुग्रं प्राणं हरिष्यामि महाव्रतस्य। निहत्य भीष्मं सगणं तथाजौ द्रोणं च शैनेय रथप्रवीरौ
संपादयिष्याम्यहमद्य हृष्टः
इतीदमुक्त्वा स महानुभावः सस्मार चक्रं निशितं पुराणम्। सुदर्शनं चिन्तितमात्रमेव तस्याग्रहस्तं स्वयमारुरोह
तच्चक्रपद्मं प्रगृहीतमाजौ रराज नारायणबाहुनालम्। यथादिपद्मं तरुणार्कवर्णं रराज नारायणनाभिजातमक्
तत्कृष्णकोपोदयसूर्यबुद्धं क्षुरान्ततीक्ष्णाग्रसुजातपत्रम्। तेस्यैव देहोरुसरःप्ररूढं रराज नारायणबाहुनालम्
वेगेन कृष्मः प्रससार भीष्मम्
घनो यथा खे तडितावनद्धः
तमात्तचक्रं प्रणदन्तमुच्चैः क्रुद्धं महेन्द्रावरजं समीक्ष्य । सर्वाणि भूतानि भृशं विनेदुः क्षयं कुरूणामिव चिन्तयित्वा
स वासुदेवः प्रगृहीतचक्रः संवर्तयिष्यन्निव सर्वलोकम्। अभ्युत्पतँल्लोकगुरुर्बभासे भूतानि धक्ष्यन्निव धूमकेतुः
गोविन्दमाजावविमूढचेताः
एह्येहि देवेश जगन्निवास नमोस्तु ते माधव चक्रपाणे। प्रसह्य मां पातय लोकनाथ रथोत्तमात्सर्वशरण्य सङ्ख्ये
त्वया हतस्यापि ममाऽद्य कृष्ण श्रेयः परिस्मिन्निह चैव लोके। संभावितोऽस्म्यन्धकवृष्णिनाथ लोकैस्त्रिभिर्वीर तवाभियानात्
रथादवप्लुत्य ततस्त्वरावान् पार्थोऽप्यनुद्रुत्य यदुप्रवीरम्। जग्राह पीनोत्तमलम्बबाहुं बाह्वोर्हरिं व्यायतपीनबाहुः
निगृह्यमणाश्च तदाऽऽदिदेवो भृश सरोषः किल नाम योगी । आदाय वेगेन जगाम विष्णु- र्जिष्णुं महावात इवैकवृक्षम्
पार्थस्तु विष्टभ्य बलेन पादौ भीष्मान्तिकं तूर्णमभिद्रवन्तम्। बलान्निजग्राह हरिं किरीटी पदेऽथ राजन्दशमे कथंचित्
अवस्थितं च प्रणिपत्य कृष्णं प्रीतोऽर्जुनः काञ्चनचित्रमाली। उवाच कोपे प्रतिसंहरेति गतिर्भवान्केशव पाण्डवानाम्
न हास्यते कर्म यथाप्रतिज्ञं पुत्रैः शपे केशव सोदरैश्च । अन्तं करिष्यामि यथा कुरूणां त्वयाऽहमिन्द्रानुजसंप्रयुक्तः
ततः प्रतिज्ञां समयं च तस्य जनार्दनः प्रीतमना निशम्य। स्थितः प्रिये कौरवसत्तमस्य रथं सचक्रः पुनरारुरोह
ततः प्रतिज्ञां समवाप्य भीष्मः कृताञ्चलिः स्तुत्यमथाकरोद्वै । त्रैविक्रमे यस्य वपुर्बभासे तथैव दृष्ट्वा तु समुञ्ज्वलन्तम्
प्रगृह्य शङ्खं द्विषताकं निहन्ता स तानभूषून्पुनराददानः । भीष्मं शरैः संपरिवार्य सङ्ख्ये चिच्छेद भूरिश्रवसश्च चापम्