विचकर्ष ततो दोर्भ्यां धनुर्जलदनिःस्वनम् । अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः
तस्य तत्पूजयामास लाघवं शन्तनोः सुतः। साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन
त्वय्येवैतद्युक्तरूपं महत्कर्म धनंजय । प्रीतोऽस्मि सुभृशं पुत्र कुरु युद्धं मया सह
इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः । मुमोच समरे वीरः शरान्पार्थरथं प्रति
अदर्शयद्वासुदेवो हययाने परं बलम् । मोघान्कुर्वञ्शरांस्तस्य मण्डलान्व्यचरल्लुघु
तथा भीष्मस्तु सुदृढं वासुदेवधनंजयौ। विव्याध निशितैर्बाणैः सर्वगात्रेषु भारत
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ । गोवृषाविव संरब्धौ विषाणोल्लेखनाङ्क्तितौ
पुनश्चापि सुसंरब्धः शरैः शतसहस्रशः । कृष्णयोर्युधि संरब्धो भीष्माः प्राच्छादयद्दिशः । `पार्थोऽपि समरे क्रुद्धो भीष्मस्यावारयद्दिशः
वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः । मुहुरभ्यर्दयन्भीष्मः प्रहस्य स्वनवत्तदा
ततस्तु कृष्णः समरे दृष्ट्वा भीष्मपराक्रमम्। संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम्
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि । प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः
वारन्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्। युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले
अमृष्यमाणो भगवान्केशवः परवीरहा। अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम्
एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान्। किं नु पाण्डुसुतान्युद्धे सबलान्सपदानुगान्
द्रवते च महासैन्यं पाण्डवस्य महात्मनः । एते च कौरवास्तूर्णं प्रभग्नान्वीक्ष्य सोमकान्
प्राद्रवन्ति रणे दृष्ट्वा हर्षयन्तः पितामहम् । सोहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः
भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् । अर्जुनो हि शरैस्तीक्ष्णैर्वध्यमानोऽपि संयुगे
कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात्। तथा चिन्तयतस्तस्य भूय एव पितामहः । प्रेषयामास संक्रुद्धः शरान्पार्थरथं प्रति
तेषां बहुत्वासु भृसं शराणां दिशश्च सर्वाः पिहिता बभूवुः । न चान्तरिक्षं न दिशो न भूमि- र्न भास्करोऽदृश्यत रश्मिमालीक
ववुश्च वातास्तुमुलाः सधूमा दिशश्च सर्वाः क्षुभिता बभूवुः। द्रोणो विकर्णोऽथ जयद्रथश्च भूरिश्रवाः कृतवर्मा कृपश्च
श्रुतायुरम्बष्ठपतिश्च राजा विन्दानुविन्दौ च सुदक्षिणश्च। प्राच्याश्च सौवीरगणाश्च सर्वे वसातयः क्षुद्रकमालवाश्च
किरीटिनं त्वरमाणाभिस्रु- र्निदेशगाः शान्तनवस्य राज्ञः। तं वाजिपादातरथौघजालै- रनेकसाहस्रशतैर्ददर्श
किरीटिनं संपरिवार्यमाणं शिनेर्नप्ता वारणयूथपैश्च। ततस्तु दृष्ट्वार्जुनवासुदेवौ पदातिनागाश्वरथैः समन्तात्
अभिद्रुतौ शस्त्रभृतां वरिष्ठौ शिनिप्रवीरोऽभिससार तूर्णम्। स तान्यनीकानि महाधनुष्मान् शिनिप्रवीरः सहसाऽभिपत्य
चकार साहाय्यमथार्जुनस्य विष्णुर्यथा वृत्रनिषूदनस्य। विशीर्णनागाश्वरथध्वजौघं भीष्मेण वित्रासितसर्वयोधम्
युधिष्ठिरानीकमभिद्रवन्तं प्रोवाच संदृश्य शिनिप्रवीरः । क्व क्षत्रिया यास्यथ नैष धर्मः सतां पुरस्तात्कथितः पुराणैः
मा स्वां प्रतिज्ञां त्यजत प्रवीराः स्वं वीरधर्मं परिपालयध्वम्। तान्वासवानन्तरजो निशाम्य नरेन्द्रमुख्यान्द्रवतः समन्तात्
पार्थस्य दृष्टवा मृदुयुद्धातां च भीष्मं च सङ्ख्ये समुदीर्यमाणम्। अमृष्यमाणः स ततो महात्मा यशस्विनं सर्वदशार्हभर्ता
उवाच शैनेयमभिप्रशंसन् दृष्ट्वा कुरूनापततः समग्रान्। ये यान्ति ते यान्तु शिनिप्रवीर येऽपि स्थिताः सात्वत तेऽपि यान्तु
भीष्मं रथात्पश्य निपात्यमानं द्रोणं च सङ्ख्ये सगणं मयाऽद्य। न सारथेः सात्वत कौरवाणां क्रुद्धस्य मुच्येत रणेऽद्य कश्चित्