नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान्। महेन्द्रसमवीर्येण वध्यमाना महाचमूः
अभज्यत महाराज न च द्वौ सह धावतः। आविद्धरनागाश्वं पतितध्वजकूबरम्
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम्। जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा
प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः । विमुच्य कवचान्यन्ये पाण्डुपुत्रस्य सैनिकाः
विनुक्तकेशा धावन्तः प्रत्यदृश्यन्त भारत। तद्गोकुलमिवोद्धान्तमुद्धान्तरथयूथपम्
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा। प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम्। असं स कालः संप्राप्तः पार्थ पस्तेऽभिकाङ्क्षितः
प्रहरस्व नरव्याघ्र न चेन्मोहाद्विमुह्यसे। यत्त्वया कथितं वीर पुरा राज्ञां समागमे
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान्। सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम । बीभत्सो पश्य सैन्यं स्वं भज्यमानं ततस्ततः
द्रवतश्च महीपालान्पश्य यौधिष्ठिरे बले। दृष्ट्वा हि भीष्मं समरे व्यात्ताननमिवान्तकम्
भयार्ताः प्रपलायन्ते सिंहात्क्षुद्रमृगा इव। एवमुक्तः प्रत्युवाच वासुदेवं धनंजयः
नोदयाश्वान्यतो भीष्मो विगाहे तद्वलार्णवम् । पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम्
ततोऽश्वान्रजतप्रकख्यान्नोदयामास माधवः। यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्। दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे
ततो भीष्मःक कुरुश्रेष्ठ सिंहवद्विनदन्मुहुः । धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत्
क्षणेन स रथस्तस्य सहयः कसहसारथिः । शरवर्षेण महता संछन्नो न प्रकाशते
वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्त्ववान् । चोदयामास तानश्वान्विभिन्नान्भीष्मसायकैः
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम् । पातयामास भीष्मस्य धनुश्छित्वा त्रिभिः शरैः
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः । निमिषान्तरमात्रेण सज्यं चक्रे पिता तव
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिःस्वनम् । अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः
तस्य तत्पूजयामास लाघवं शन्तनोः सुतः। साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन
त्वय्येवैतद्युक्तरूपं महत्कर्म धनंजय । प्रीतोऽस्मि सुभृशं पुत्र कुरु युद्धं मया सह
इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः । मुमोच समरे वीरः शरान्पार्थरथं प्रति
अदर्शयद्वासुदेवो हययाने परं बलम् । मोघान्कुर्वञ्शरांस्तस्य मण्डलान्व्यचरल्लुघु
तथा भीष्मस्तु सुदृढं वासुदेवधनंजयौ। विव्याध निशितैर्बाणैः सर्वगात्रेषु भारत
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ । गोवृषाविव संरब्धौ विषाणोल्लेखनाङ्क्तितौ
पुनश्चापि सुसंरब्धः शरैः शतसहस्रशः । कृष्णयोर्युधि संरब्धो भीष्माः प्राच्छादयद्दिशः । `पार्थोऽपि समरे क्रुद्धो भीष्मस्यावारयद्दिशः
वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः । मुहुरभ्यर्दयन्भीष्मः प्रहस्य स्वनवत्तदा
ततस्तु कृष्णः समरे दृष्ट्वा भीष्मपराक्रमम्। संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम्