स्वधर्मं च पुरस्कृत्य त्वामद्य शरणं गता। तस्मान्नर्हसि संश्रुत्य तथेति वितथं वचः
स्वधर्मं पृष्ठतः कृत्वा परित्यक्तुमुपस्थिताम्। त्वन्नाथां लोकनाथस्त्वं नार्हसि त्वमनागसम्
किं नु कर्माशुभं पूर्वं कृतवत्यस्मि पार्थिव। यदहं बान्धवैस्त्यक्ता बाल्ये संप्रति वै त्वया
कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम्। इमं बालं तु संत्युक्तं नार्हस्यात्मजमात्मना
न पुत्रमभिजानामि त्वयि जातं शकुन्तले। असत्वचना नार्यः कस्ते श्रद्धास्यते वचः
अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे। विशेषतो मत्सकाशे दुष्टतापसि गम्यताम्
क्व महर्षिस्तपस्युग्रः क्वाप्सराः सा च मेनका। क्व च त्वमेवं कृपणा तापसीवेषधारिणी
अतिकायश्च पुत्रस्ते बालोऽतिबलवानयम्। कथमल्पेन कालेन सालस्कन्ध इवोद्गतः
सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे। यदृच्छया कामरागाज्जाता मेनकया ह्यसि
सर्वमेव परोक्षं मे यत्त्वं वदसि तापसि। `सर्वा वामाः स्त्रियो लोके सर्वाः कामपरायणाः
सर्वाः स्त्रियः परवशाः सर्वाः क्रोधसमाकुलाः। असत्योक्ताः स्त्रियः सर्वा न कण्वं वक्तुमर्हसि
मेनका निरनुक्रोशा वर्धकी जननी तव। यया हिमवतः पादे निर्माल्यवदुपेक्षिता
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव। विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः
सुषाव सुरनारी मां विश्वामित्राद्यथेष्टतः। अहो जानामि ते जन्म कुत्सितं कुलटे जनैः
मेनकाऽप्सरसां श्रेष्ठा महर्षिश्चापि ते पिता। तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिभाषसे
जातिश्चापि निकृष्टो ते कुलीनेति विजल्पसे। जनयित्वा त्वमुत्सृष्टा कोकिलेन परैर्भृता
अरिष्टैरिव दुर्बद्धिः कण्वो वर्धयिता पिता। अश्रद्धेयमिदं वाक्यं यत्त्वं जल्पसि तापसि
ब्रुवन्ती राजसान्निध्ये गम्यतां यत्र चेच्छसि। `सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च
यदिहेच्छसि भोगार्थं तापसि प्रतिगृह्यताम्। नाहं त्वां द्रष्टुमिच्छामि यथेष्टं गम्यतामितः
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि। आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम्। ममैवोद्रिच्यते जन्म दुष्यन्त तव जन्मतः
क्षितौ चरसि राजंस्त्वमन्तरिक्षे चराम्यहम्। आवयोरन्तरं पश्य मेरुसर्षपयोरिव
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च। भवनान्यनुसंयामि प्रभावं पश्य मे नृप
पुरा नरवरः पुत्र उर्वश्यां जनितस्तदा। आयुर्नाम महाराज तव पूर्वपितामहः
महर्षयश्च बहवः क्षत्रियाश्च परन्तपाः। अप्सरःसु ऋषीणां च मातृदोषो न विद्यते
सत्यश्चापि प्रवादोऽयं प्रवक्ष्यामि च ते नृप। निदर्शनार्थं न द्वेषाच्छ्रुत्वा तत्क्षन्तुमर्हसि
विरूपो यावदादर्शे नात्मनो वीक्षते मुखम्। मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम्
यदा तु रूपमादर्शे विरूपं सोऽभिवीक्षते। तदा ह्रीमांस्तु जानीयादन्तरं नेतरं जनम्
अतीव रूपसंपन्नो न कंचिदवमन्यते। अतीव जल्पन्दुर्वाचो भवतीह विहेतुकः
पांसुपातेन हृष्यन्ति कुञ्जरा मदशालिनः। तथा परिवदन्नन्यान्हृष्टो भवति दुर्मतिः