विकीर्णैः कवचैश्चित्रैः शिरस्त्रणैश्च मारिष । शुशुभे तद्राणस्थानं शरदीव नभस्तलम्
विनिर्भिन्नाः शरैः केचिदन्त्रापीडप्रकर्षिणः । अभीताः समरे शत्रूनभ्यधावन्त दर्पिताः
तात भ्रातः सखे बन्धो वयस्य मम मातुल । मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे
अथाभ्येहि त्वमागच्छ किं भीतोसि क्व यास्यसि। स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः
तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः । मुमीच बाणान्दीप्ताग्रानहीनाशीविषानिव
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः । जघान पाण्डवरथानादिश्य भारतर्षभ
स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् । अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते
तमेकं समरे शूरं पाण्डवाः सृञ्जयैः सह। अनेकशतसाहस्रं समपश्यन्त लाघवात्
मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे । पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः
उदीच्यां चैवमालोक्य दक्षिणस्यां पुनः प्रभो। एवं स समरे शूरो गाङ्गेयः प्रत्यदृश्यत
न चैवं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् । विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून्
कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् । व्याक्रोशन्त रणे तत्र नरा बहुविधा बहु
अमानुषेण रूपेण चरन्तं पितरं तव। शलभा इव राजानः पतन्ति विधिचोदिताः
भीष्माग्निमभिसंक्रुद्धं विनाशाय सहस्रशः । न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे
नरनागाश्वकायेषु बहुत्वाल्लघुयोधिनः । भिनत्त्येकेन बाणेन सुमुखेन पतत्रिणा
गजं कंकटसन्नद्धं वज्रेणेव शिलोच्चयम् । द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि
नाराचेन सुमुक्तेन निजघान पिता तव। यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन
मुहूर्तदृष्टः स मया पतितो भुवि दृश्यते। एवं सा धर्मराजस्य वध्यमाना महाचमूः
भीष्मेणातुलवीर्येण व्यशीर्यत संहस्रधा। प्राकम्पत महासेना शरवर्षेण तापिता
पश्यतो वासुदेवस्य पार्थस्याथ शिखण्डिनः। यतमानाऽपि ते वीरा द्रवमाणान्महारथान्
नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान्। महेन्द्रसमवीर्येण वध्यमाना महाचमूः
अभज्यत महाराज न च द्वौ सह धावतः। आविद्धरनागाश्वं पतितध्वजकूबरम्
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम्। जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा
प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः । विमुच्य कवचान्यन्ये पाण्डुपुत्रस्य सैनिकाः
विनुक्तकेशा धावन्तः प्रत्यदृश्यन्त भारत। तद्गोकुलमिवोद्धान्तमुद्धान्तरथयूथपम्
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा। प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम्। असं स कालः संप्राप्तः पार्थ पस्तेऽभिकाङ्क्षितः
प्रहरस्व नरव्याघ्र न चेन्मोहाद्विमुह्यसे। यत्त्वया कथितं वीर पुरा राज्ञां समागमे
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान्। सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम । बीभत्सो पश्य सैन्यं स्वं भज्यमानं ततस्ततः