प्रावर्तत ततो युद्धं तुमुलं रोमहर्षणम् । अस्माकं पाण्डवैः सार्धमनायात्तव भारत
घनुषां कूजतां तत्र तलानां चाभिहन्यताम्। महान्समभवच्छब्दो गिरीणामिव दीर्यताम्
तिष्ठ स्थितोऽस्मि विद्ध्यैनं निवर्तस्व स्थिरो भव। स्थिरोऽस्मि प्रहरस्वेति शब्दोऽश्रूयत सर्वशः
काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च। शिलानामिव शैलेषु पतितानामभूद्ध्वनिः
पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः । व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः
हृतोत्तमाह्गाः केचित्तु तथैवोद्यतकार्मुकाः। प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाःक
प्रावर्तत महावेगा नदी रुधिरवाहिनी । मातङ्गाङ्गशिला रौद्रा मांसशोणितकर्दमा
वरश्वनरनागानां शरीरप्रभवा तदा। परलोकार्णवमुखी गृध्रगोमायुमोदिनी
न दृष्टं न श्रुतं वापि युद्धमेतादृशं नृप। यथा तव सुतानां च पाण्डवानां च भारत
नासीद्रथपथस्तत्र यौधैर्युधि निपातितैः । गजैश्च पतितैर्नीलैर्गिरिश्रृङ्गैनिरवावृतः
विकीर्णैः कवचैश्चित्रैः शिरस्त्रणैश्च मारिष । शुशुभे तद्राणस्थानं शरदीव नभस्तलम्
विनिर्भिन्नाः शरैः केचिदन्त्रापीडप्रकर्षिणः । अभीताः समरे शत्रूनभ्यधावन्त दर्पिताः
तात भ्रातः सखे बन्धो वयस्य मम मातुल । मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे
अथाभ्येहि त्वमागच्छ किं भीतोसि क्व यास्यसि। स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः
तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः । मुमीच बाणान्दीप्ताग्रानहीनाशीविषानिव
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः । जघान पाण्डवरथानादिश्य भारतर्षभ
स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् । अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते
तमेकं समरे शूरं पाण्डवाः सृञ्जयैः सह। अनेकशतसाहस्रं समपश्यन्त लाघवात्
मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे । पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः
उदीच्यां चैवमालोक्य दक्षिणस्यां पुनः प्रभो। एवं स समरे शूरो गाङ्गेयः प्रत्यदृश्यत
न चैवं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् । विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून्
कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् । व्याक्रोशन्त रणे तत्र नरा बहुविधा बहु
अमानुषेण रूपेण चरन्तं पितरं तव। शलभा इव राजानः पतन्ति विधिचोदिताः
भीष्माग्निमभिसंक्रुद्धं विनाशाय सहस्रशः । न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे
नरनागाश्वकायेषु बहुत्वाल्लघुयोधिनः । भिनत्त्येकेन बाणेन सुमुखेन पतत्रिणा
गजं कंकटसन्नद्धं वज्रेणेव शिलोच्चयम् । द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि
नाराचेन सुमुक्तेन निजघान पिता तव। यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन
मुहूर्तदृष्टः स मया पतितो भुवि दृश्यते। एवं सा धर्मराजस्य वध्यमाना महाचमूः
भीष्मेणातुलवीर्येण व्यशीर्यत संहस्रधा। प्राकम्पत महासेना शरवर्षेण तापिता
पश्यतो वासुदेवस्य पार्थस्याथ शिखण्डिनः। यतमानाऽपि ते वीरा द्रवमाणान्महारथान्