नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ । वार्यमाणं च भीष्मेण द्रोणेन च महात्मना
विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः। ततो रथसहस्रेषु विद्रवत्सु ततस्ततःक
तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ । सौबलीं समरे सेनां शातयेतां समन्ततः
शुशुभाते तदा तौ तु शैनेयकुरुपुङ्गवौ। अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले
अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशांपते । ववर्ष शरवर्षेण धाराभिरिव तोयदः
वध्यमानं ततस्तत्र शरैः पार्थस्य संयुगे। दुद्राव कौरवं सैन्यं विषादभयकम्पितम्
द्रवतस्तान्समालक्ष्य भीष्मद्रोणौ महारथौ । न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ
ततो दुर्योधनो राजा समाश्वस्य विशांपते । न्यवर्तयत तत्सैन्यं द्रवमाणां समन्ततः
यत्र यत्र हि पुत्रं ते ये ये पश्यन्ति भारत। तत्र तत्र न्यवर्तन्त क्षत्रियाणां महरथाः
तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः। अन्योन्यस्पर्धया राजँल्लज्जया चावतस्थिरे
पुनरावर्ततां तेषां वेग आसीद्विशांपते। पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति
अन्निवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः। अब्रवीत्त्वरितो गत्वा भीष्मं शान्तनवं वचः
पितामह निबोधेदं यत्त्वां वक्ष्यामि भारत। नानुरूपमहं मन्ये त्वयि जीवति कौरव
द्रोणो चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृञ्जने। कृपे चैव महेष्वासे द्रवते यद्वरूथिनी
न पाण्डवान्प्रतिलांस्तव मन्ये कथंचन । तथा द्रोणस्य सङ्ग्रमे द्रौमेश्चैव कृपस्य च
अनुग्राह्याः पाण्डुसुतास्तव नूनं पितामह । यथेमां क्षमसे वीर वध्यमानां वरूथिनीम्
सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे। न योत्स्ये पाण्डवान्सङ्ख्ये नापि पार्षतसात्यकी
श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च। कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि
यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे । विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ
एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः । अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी
बहुशोऽसि मया राजंस्तथ्यमुक्तो हितं वचः। अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः
यत्तु शक्यं मया कर्तुं वृद्धेनाद्य गतायुषा। करिष्यामि यथाशक्ति पश्येदानीं सबान्धवः
अद्य पाण्डुसुतानेकः ससैन्यान्सह बन्धुभिः । सोऽहं निवारयिष्यामि सर्वलोकस्य पश्यतः
एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर । दध्मुः शङ्खान्मुदा युक्ता भेरीः संजघ्निरे भृशम्
पाण्डवा हि ततो राजञ्श्रुत्वा तं निनदं महत्। दध्मुः शङ्खांश्च भेरीश्च मुरजांश्चाप्यनादयन्
प्रतिज्ञाते ततस्तस्मिन्युद्धे भीष्मेण दारुणे। क्रोधितो मम पुत्रेण दुःखितेन विशेषतः
भीष्मः किमकरोत्तत्र पाण्डवेयेषु भारत। पितामहे वा पञ्चालास्तन्ममाचक्ष्व सञ्जय
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत। पश्चिमां दिशमास्थाय स्थिते चापि दिवाकरे
जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्ससु। सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव
अभ्ययाञ्जवनैरश्वैः पाण्डवानामनीकिनीम् । महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः