अथैनं रथबृन्देन कोष्ठकीकृत्य भारत। शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन्
शक्तीश्च विमलाकस्तीक्ष्णा गदाश्च परिघैः सह । प्रासान्परश्वथांश्चैव मुद्गरान्मुसलानपि
चिक्षिषुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति। शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम्
रुरोध सर्वतः पार्थः शरैः कनकभूषणैः । तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम्
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः । साधुसाध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन्
सात्यकिश्चाभिमन्युश्च महत्या सेकनया वृतौ । गान्धारान्समरे शूराञ्जग्मतुः सहसौबलान्
तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् । तिशलश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि
सात्यकिस्तु रथं त्यक्त्वा वर्तमाने भयावहे । अभिमन्यो रथं तूर्णमारुरोह परंतपः
तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् । व्यधमेतां शितैस्तूर्णं शरैःक सन्नतपर्वभिः
द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् । नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः
ततो धर्मसुतोक राजा माद्रीपुत्रौ च पाण्डवौ । मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन्
तत्रासीत्सुमहद्युद्धं तुमुलं रोमहर्षणम् । यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम्
कुर्वाणौ सुमहत्कर्म भीमसेनघटोत्कचौ। दुर्योधनस्ततोऽभ्येत्य तावुभावप्यवारयत्
तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम्। अतीत्य पीतरं युद्धे यदयुध्यत भारत
भीमसेनस्तु संक्रुद्धो दुर्योधनममर्षणम्। हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः
ततो दुर्योधननो राजा प्रहारवरपीडितः। निषसाद रथोपस्थे कश्मलं च जगाम ह
तं विसंज्ञं विदित्वा तु त्वरमाणोऽस्य सारथिः । अपोवाह रणाद्राजंस्ततः सैन्यमभज्यत
ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः। निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः
पार्षतश्च रथश्रोष्ठो धर्मपुत्रश्च पाण्डवः। द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः
जघ्नतुर्विशिकैस्तीक्ष्णैः परानीकविनाशनैः । द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे
नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ । वार्यमाणं च भीष्मेण द्रोणेन च महात्मना
विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः। ततो रथसहस्रेषु विद्रवत्सु ततस्ततःक
तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ । सौबलीं समरे सेनां शातयेतां समन्ततः
शुशुभाते तदा तौ तु शैनेयकुरुपुङ्गवौ। अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले
अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशांपते । ववर्ष शरवर्षेण धाराभिरिव तोयदः
वध्यमानं ततस्तत्र शरैः पार्थस्य संयुगे। दुद्राव कौरवं सैन्यं विषादभयकम्पितम्
द्रवतस्तान्समालक्ष्य भीष्मद्रोणौ महारथौ । न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ
ततो दुर्योधनो राजा समाश्वस्य विशांपते । न्यवर्तयत तत्सैन्यं द्रवमाणां समन्ततः
यत्र यत्र हि पुत्रं ते ये ये पश्यन्ति भारत। तत्र तत्र न्यवर्तन्त क्षत्रियाणां महरथाः
तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः। अन्योन्यस्पर्धया राजँल्लज्जया चावतस्थिरे