एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः। पाण्डवानामनीकानि बभञ्जुःस्म पुनःपुनः
तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः । सात्यकिश्चेकितानश्च द्रोपदेयाश्च भारत
तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः । द्रावयामासुराजौ ते त्रिदशा दानवानिव
तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः । रक्तोक्षिता घोररूपा विरेर्जुर्दानवा इव
विनिर्जित्य रिपून्वीरा सेकनयोरुभयोरपि। व्यदृस्यन्त महामात्रा ग्रहा इव नभस्तले
ततो रथसहस्रेण पुत्रो दुर्योधनस्तव । अभ्ययात्पाण्डवं युद्धे राक्षसं च घटोत्कचम्
तथैव पाण्डवाः सर्वे महत्या सेनया सह । द्रोणभीष्मौ रणे यत्तौ प्रत्युद्ययुररिन्दमौ
किरीटी च ययौ क्रुद्धः समन्तात्पार्थिवोत्तमान् । आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम्
ततः प्रववृते भूयः संग्रामो रोमहर्षणः । तावकानां परेषां च समरे विजयैषिणाम्
ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे। रथैरनेकसाहस्रैः समन्तात्पर्यवारयन्
अथैनं रथबृन्देन कोष्ठकीकृत्य भारत। शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन्
शक्तीश्च विमलाकस्तीक्ष्णा गदाश्च परिघैः सह । प्रासान्परश्वथांश्चैव मुद्गरान्मुसलानपि
चिक्षिषुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति। शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम्
रुरोध सर्वतः पार्थः शरैः कनकभूषणैः । तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम्
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः । साधुसाध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन्
सात्यकिश्चाभिमन्युश्च महत्या सेकनया वृतौ । गान्धारान्समरे शूराञ्जग्मतुः सहसौबलान्
तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् । तिशलश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि
सात्यकिस्तु रथं त्यक्त्वा वर्तमाने भयावहे । अभिमन्यो रथं तूर्णमारुरोह परंतपः
तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् । व्यधमेतां शितैस्तूर्णं शरैःक सन्नतपर्वभिः
द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् । नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः
ततो धर्मसुतोक राजा माद्रीपुत्रौ च पाण्डवौ । मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन्
तत्रासीत्सुमहद्युद्धं तुमुलं रोमहर्षणम् । यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम्
कुर्वाणौ सुमहत्कर्म भीमसेनघटोत्कचौ। दुर्योधनस्ततोऽभ्येत्य तावुभावप्यवारयत्
तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम्। अतीत्य पीतरं युद्धे यदयुध्यत भारत
भीमसेनस्तु संक्रुद्धो दुर्योधनममर्षणम्। हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः
ततो दुर्योधननो राजा प्रहारवरपीडितः। निषसाद रथोपस्थे कश्मलं च जगाम ह
तं विसंज्ञं विदित्वा तु त्वरमाणोऽस्य सारथिः । अपोवाह रणाद्राजंस्ततः सैन्यमभज्यत
ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः। निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः
पार्षतश्च रथश्रोष्ठो धर्मपुत्रश्च पाण्डवः। द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः
जघ्नतुर्विशिकैस्तीक्ष्णैः परानीकविनाशनैः । द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे