शरैरथिरथो युद्धे दारयन्रथयूथपान् । ते वध्यमानाः पार्थेन कालेनेव युगक्षये
धार्तराष्ट्रा रणे यत्नात्पाण्डवान्प्रत्ययोधयन् । प्रार्थयाना यशो दीप्तां मृत्युं कृत्वा निवर्तनम्
एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् । बभञ्जुर्बहुशो राजंस्ते चासञ्जन्त संयुगे
द्रवद्भिरथभग्नैश्च परिवर्तद्भिरेव च। पाण्डवैः कौरवेयैश्च न प्राज्ञायत किंचन
उदतिष्ठद्रजो भौमं छादयानं दिवाकरम्। न दिशः प्रदिशो वापि जज्ञिरेऽत्र समागताः
अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे। अवर्तत तदा युद्धं तत्र तत्र विशांपते
न व्यूहो भिद्यते तत्र कौरवाणां कथञ्चन । रक्षितः सत्यसन्धेन भारद्वाजेन संयुगे
तथैव पाण्डवानां च रक्षितः सव्यसाचिना। नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः
सेनाग्रादपि निष्पत्य प्रायुध्यंस्तत्र मानवाः । उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः
हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे। ऋष्टिभिर्विमलाभिश्च प्रासैरपि च संयुगे
रथी रथिनमासाद्य शरैः कनकभूषणैःक । पातयामास समरे तस्मिन्नतिभयंकरे
गजारोहा गजारोहान्नाराचशरतोमरैः । संसक्तान्पातयामासुस्तव तेषां च सर्वशः
कश्चिदुत्पत्य समरे वस्वारणमास्थितः । केशपक्षे परामृश्य जहार समरे शिरः
अन्ये द्विरददन्ताग्रनिर्भिन्नहृदया रणे। वेमुश्च रुधिरं वीरा निःश्वसन्तः समन्ततः
कश्चित्करिविषाणस्थो वीरो रणविशारदाः । प्रावेपच्छक्तिनिर्भिन्नो गजशिक्षास्त्रवेदिना
पत्तिमङ्घा रणे पक्तीन्भिमन्दिपालपरश्वथैः । न्यतापतयन्त संहृष्टाः परस्परकृतागसः
रथी च समरे राजन्नासाद्य गजयूथपम् । स गजं पातयामास गजी च रथिनां वरम्
रथिनं च हयारोहः प्रासेन भरतर्षभ । पातयामास समरे रथी च हयसादिनम्
पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम् । न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि
गजारोहा हयारोहान्पातयांचक्रिरे तदा। हयारोहा गजस्थांश्च तदद्भुतमिवाभवत्
गजारोहवरैश्चापि तत्रतत्र पदातयः। पातिताः समदृश्यन्त तैश्चापि गजयोधिनः
पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः । पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः
ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा। प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा
शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि। निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा
परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः । भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता
नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे । अगम्यरूपा पृथिवी मांसशोणितकर्दमा
प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः । दिशश्च विमलाः सर्वाः संबभूवुर्जनेश्वर
उत्थितान्यगणेयानि कबन्धानि समन्ततः। चिह्नभूतानि जगतो विनाशार्थाय भारत
तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे । प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः
ततो भीष्मश्च द्रोणश्च सैन्धवश्च जयद्रथः । पुरुमित्रो जयो भोजः शल्यश्चापि ससौबलः