अश्वत्थामा कृपश्चैव शिर आस्तां यशस्विनौ । त्रैगर्त्तैरथ कैकेयैर्वाटधानैश्च संयुगे
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष । मद्रकाः सिन्धुसौवीरास्तथा पाञ्चनदाश्च ये
जयद्रथेन सहिता ग्रीवायां सन्निवेशिताः । पृष्ठे दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः
विन्दानुविन्दावावन्त्यौ काम्भोजश्च शकैः सह। पच्छमासन्महाराज शूरसेनाश्च सर्वशः
मागधाश्च कलिङ्गाश्च दासेरकगणैः सह । दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः
काकरुशा विकुञ्चाश्च मुण्डाः कुण्डीवृषास्तथा। बृहद्वलेन सहिता वामं पार्श्वमवस्थिताः
व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परंतपः। धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे
अर्धचन्द्रेण व्यूहेन व्यूहन्तमतिदारुणम् । दक्षिणं शृङ्गमास्वय भिमसेनो व्यरोचत
नानासंस्त्रौपसंषत्रैर्नानादेश्यैर्नृपैर्वृतः । तदन्येव विराटश्च द्रुपदश्च महारथः
तदनन्तरमेवासीन्नीलो नीलायुधैः सह । नीलादनन्तरश्चैव धृष्टकेतुर्महाबलः
चेदिकाशिकरूपेश्च पौरवैरपि संवृतः। धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः
मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत। तत्रैव धर्मराजोऽपि गजानीकेन संवृतः
ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः । अभिमन्युस्ततः शूर इरावांश्च ततः परम्
भैमसेनिस्ततो राजन्केकयाश्च महारथाः । एते सर्वे महाराज वामं पार्श्वमुपाश्रिताः
सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः। `तत्रानुरथिनां श्रेष्ठो वामश्रृङ्गे व्यवस्थितः।' एवमेतं महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः
वधार्थं तव पुत्रामां तत्पक्षे ये च सङ्गताः । ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्
तावकानां परेषां च निघ्नतामितरेतरम् । हयौघाश्च रथौघाश्व तत्र तत्र विशांपते
संपतन्तो व्यदृश्यन्त निघ्नन्तस्ते परस्परम् । धावतां च रथोघानां निघ्नतां च पृथक् पृथक्
बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः । दिवस्पृङ्वरवीराणां निघ्नतामितरेतरम् । संप्रहारे सुतुमुले तव तेषां च भारत
ततो व्यूढेष्वनीकेषु तावकेषु परेषु च। धनञ्जयो रथानीकमवधीत्तव भारत
शरैरथिरथो युद्धे दारयन्रथयूथपान् । ते वध्यमानाः पार्थेन कालेनेव युगक्षये
धार्तराष्ट्रा रणे यत्नात्पाण्डवान्प्रत्ययोधयन् । प्रार्थयाना यशो दीप्तां मृत्युं कृत्वा निवर्तनम्
एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् । बभञ्जुर्बहुशो राजंस्ते चासञ्जन्त संयुगे
द्रवद्भिरथभग्नैश्च परिवर्तद्भिरेव च। पाण्डवैः कौरवेयैश्च न प्राज्ञायत किंचन
उदतिष्ठद्रजो भौमं छादयानं दिवाकरम्। न दिशः प्रदिशो वापि जज्ञिरेऽत्र समागताः
अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे। अवर्तत तदा युद्धं तत्र तत्र विशांपते
न व्यूहो भिद्यते तत्र कौरवाणां कथञ्चन । रक्षितः सत्यसन्धेन भारद्वाजेन संयुगे
तथैव पाण्डवानां च रक्षितः सव्यसाचिना। नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः
सेनाग्रादपि निष्पत्य प्रायुध्यंस्तत्र मानवाः । उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः
हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे। ऋष्टिभिर्विमलाभिश्च प्रासैरपि च संयुगे