परिघाणां प्रदीप्तानां मुद्गराणां च मारिष । प्रासानां भिन्दिपालानां निस्त्रिशानां च संयुगे
परश्वथानां पीक्ष्णानां तोमराणां च भारत। वर्मणां चापविद्धानां काञ्चनानां च भूमिप
ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः । छत्राणां हेमदण्डानां तोमराणां च भारत
प्रतोदानां च योक्राणां कशानां चैव मारिष । राशयः स्मात्र दृश्यन्ते विनिकीर्णा रणक्षितौ
नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत । योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथंचन
यो यो हि समरे पार्थं प्रत्युद्याति विशांपते। स सङ्ख्ये विशिखैस्तीक्ष्णैः परलोकाय नीयते
तेषु विद्रवमाणेषु तव योधेषु सर्वशः। अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ
तत्पभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव। अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव
एष पाण्डुसुतो वीर कृष्णेन सहितो बली । तथा करोति सैन्यानि यथा कुर्याद्धऩञ्जयः
न ह्येष समरे शक्यो विजेतुं हि कथंचन । यथास्य दृश्यते रूप कालान्तकयमोपमम्
न निवर्तयितुं चापि शक्येयं महती चमूः । अन्योन्यप्रेया पश्य द्रवतीयं वरूथिनी
एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते। चक्षूंषि सर्वलोकस्य संहरन्निव सर्वथा
तत्रावहारं संप्राप्तं मन्येऽहं पुरुषर्षभ । श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथंचन
एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् । अवहारमथो चक्रे तावकानां महारथः
ततः सरथनागाश्वा जंय प्राप्य समोपकाः। पाञ्चालाः पाण्डवाश्चैव प्रणेदुश्च पुनः पुनः
प्रययुः शिबिरायैव धनञ्जयपुरस्कृताः। वादित्रघोषैः संहृष्टा प्रणद्यन्तो महारथाः
ततोऽवहारः सैन्यानां तव तेषां च भारत। अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति
प्रभातायां च शर्वर्यां भीष्मः शान्तनस्तदा। अनीकान्यनुसंयाने व्यादिदेशाय भारत
गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा। पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः
गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव। चक्षुषी च भरज्वाजः कृतवर्मा च सात्वतः
अश्वत्थामा कृपश्चैव शिर आस्तां यशस्विनौ । त्रैगर्त्तैरथ कैकेयैर्वाटधानैश्च संयुगे
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष । मद्रकाः सिन्धुसौवीरास्तथा पाञ्चनदाश्च ये
जयद्रथेन सहिता ग्रीवायां सन्निवेशिताः । पृष्ठे दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः
विन्दानुविन्दावावन्त्यौ काम्भोजश्च शकैः सह। पच्छमासन्महाराज शूरसेनाश्च सर्वशः
मागधाश्च कलिङ्गाश्च दासेरकगणैः सह । दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः
काकरुशा विकुञ्चाश्च मुण्डाः कुण्डीवृषास्तथा। बृहद्वलेन सहिता वामं पार्श्वमवस्थिताः
व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परंतपः। धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे
अर्धचन्द्रेण व्यूहेन व्यूहन्तमतिदारुणम् । दक्षिणं शृङ्गमास्वय भिमसेनो व्यरोचत
नानासंस्त्रौपसंषत्रैर्नानादेश्यैर्नृपैर्वृतः । तदन्येव विराटश्च द्रुपदश्च महारथः
तदनन्तरमेवासीन्नीलो नीलायुधैः सह । नीलादनन्तरश्चैव धृष्टकेतुर्महाबलः