दौर्योधनिः सुसंक्रुद्धः सौभद्रं परवीरहा । विव्याध समरे राजंस्तदद्भुतमिवाभवत्
अभिमन्युः सुसंक्रुद्धो भ्रातरं भरतर्षभ । शरैः पञ्चाशतै राजन्क्षिप्रहस्तोऽभ्यविध्यत
लक्ष्मणोऽपि पुनस्तस्य धनुश्चिच्छेद पत्रिणा। मुष्टिदेशे महाराज ततस्ते चुक्रुशुर्जनाः
तद्विहाय धनुश्छिन्नं सौभद्रं परवीरहा। अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम्
तौ तत्र समरे युक्तौ कृतप्रतिकृतैषिणौ । अन्योन्यं विशिस्वैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ
ततो दुर्योधनो राज दृष्ट्वा पुत्रं महारथम्। पीडितं तव पौत्रेण प्रायात्तत्र प्रजेश्वरः
सन्निवृत्ते तव सुते सर्व एव जनाधिपाः । आर्जुनिं रथवंशेन समन्तात्पर्यवारयन्
स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः । न स्म प्रव्यथते राजन्कृष्णतुल्यपराक्रमः
सौभद्रमथ संसक्तं दृष्ट्वा तत्र धनंजयः । अभिदुद्राव वेगेन त्रातुकामः स्वमात्मजम्
ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः । अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम्
उद्वूतं सहसा भौमं नागाश्वरथपत्तिभिः । दिवाकररथं प्राप्य रजस्तीव्रमदृश्यत
तानि नागसहस्राणि भूमिपालशतानि च। तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः
प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः। कुरूणां चानयस्तीव्रः समदृश्यत दारुणः
नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः । प्रजज्ञे भरतश्रेष्ठ सस्त्रसङ्घैः किरीटिनः
सादिता रथनागाश्च हताश्वा रथिनो रणे। विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः
विरथा रथिनश्चान्ये धावमानाः समन्ततः । तत्रतत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः
हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः । अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः
रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः । पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनसायकैः
सगदानुद्यतान्बाहून्सखङ्गांश्च विशांपते । सप्रासांश्च सतूणीरान्सशरान्सशरासनान्
साङ्कुशाकन्सपताकांश्च तत्रतत्रार्जुनो नृणाम् । निचकर्त शरैरुग्रै रौद्रं वपुरधारयत्
परिघाणां प्रदीप्तानां मुद्गराणां च मारिष । प्रासानां भिन्दिपालानां निस्त्रिशानां च संयुगे
परश्वथानां पीक्ष्णानां तोमराणां च भारत। वर्मणां चापविद्धानां काञ्चनानां च भूमिप
ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः । छत्राणां हेमदण्डानां तोमराणां च भारत
प्रतोदानां च योक्राणां कशानां चैव मारिष । राशयः स्मात्र दृश्यन्ते विनिकीर्णा रणक्षितौ
नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत । योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथंचन
यो यो हि समरे पार्थं प्रत्युद्याति विशांपते। स सङ्ख्ये विशिखैस्तीक्ष्णैः परलोकाय नीयते
तेषु विद्रवमाणेषु तव योधेषु सर्वशः। अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ
तत्पभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव। अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव
एष पाण्डुसुतो वीर कृष्णेन सहितो बली । तथा करोति सैन्यानि यथा कुर्याद्धऩञ्जयः
न ह्येष समरे शक्यो विजेतुं हि कथंचन । यथास्य दृश्यते रूप कालान्तकयमोपमम्