ततः शैक्यायसीं गुर्वी प्रगृह्य बलवान्गदाम् । भीमसेनस्ततस्तूर्णं पुप्लुवे मनुजर्षभ
सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया । गाङ्गेयसारथिं तूर्णं पातयामास सायकैः
भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः । वातायमानैस्तैरश्वैरपनीतो रणाजिरात्
भीमसेनस्ततो राजन्नपयाते महाव्रते । प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः
स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत। नैनमभ्युत्सहन्केचित्तावका भरतर्षभ
धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः। पश्यतां सर्वसैन्यानामपोवाहक यशस्विनम्
संपूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ । धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम्
अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः । प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः
दिष्ट्या कालिङ्गराजश्च राजपुत्रश्च केतुमान । शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः
स्वबाहुबलवीर्येण नागाश्वरथसंकुलः । महापुरुषभूयिष्ठो धीरयोधनिषेवितः
महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया । एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिन्दम। रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम्
ततः स्वरथमास्थाय पुनरेव महारथः । तावकानवधीत्क्रुद्धो भीमस्य बलमादधत्
ततोऽपराह्णभूयिष्ठे तस्मिन्नहनि भारत। रथनागाश्वपत्तीनां सादिनां च महाक्षये
द्रोणपुत्रेण शल्येन कृपेण च महात्मना । समसज्जत पाञ्चाल्यस्त्रिभिरैतैर्महारथैः
स लोकविदितानश्वान्निजघान महाबलः । द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः
ततः शल्यरथं तूर्णमास्थाय हतवाहनः । द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः
धृष्टद्युम्नं तु संयुक्तं द्रौणिना वीक्ष्य भारत। सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान्
स शल्यं प़ञ्चविंशत्या कृपं च नवभिः शरैः । अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभः
आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा। शल्योऽथ दशभिश्चैव कृपश्च निशितैस्त्रिभिः
लक्ष्मणस्तव पौत्रस्तु सौभद्रं समवस्थितम् । अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत
दौर्योधनिः सुसंक्रुद्धः सौभद्रं परवीरहा । विव्याध समरे राजंस्तदद्भुतमिवाभवत्
अभिमन्युः सुसंक्रुद्धो भ्रातरं भरतर्षभ । शरैः पञ्चाशतै राजन्क्षिप्रहस्तोऽभ्यविध्यत
लक्ष्मणोऽपि पुनस्तस्य धनुश्चिच्छेद पत्रिणा। मुष्टिदेशे महाराज ततस्ते चुक्रुशुर्जनाः
तद्विहाय धनुश्छिन्नं सौभद्रं परवीरहा। अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम्
तौ तत्र समरे युक्तौ कृतप्रतिकृतैषिणौ । अन्योन्यं विशिस्वैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ
ततो दुर्योधनो राज दृष्ट्वा पुत्रं महारथम्। पीडितं तव पौत्रेण प्रायात्तत्र प्रजेश्वरः
सन्निवृत्ते तव सुते सर्व एव जनाधिपाः । आर्जुनिं रथवंशेन समन्तात्पर्यवारयन्
स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः । न स्म प्रव्यथते राजन्कृष्णतुल्यपराक्रमः
सौभद्रमथ संसक्तं दृष्ट्वा तत्र धनंजयः । अभिदुद्राव वेगेन त्रातुकामः स्वमात्मजम्
ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः । अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम्