आत्मा वै पुत्रनामासि स जीव शरदः शतम्। उपजिघ्रन्ति पितरो मन्त्रेणानेन मूर्धनि
पोषणं त्वदधीनं मे सन्तानमपि चाक्षयम्। तस्मात्त्वं जीव मे पुत्र स सुखी शरदां शतम्
एको भूत्वा द्विधा भूत इति वादः प्रवर्तते। त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषः परः
सरसीवामलेऽऽत्मानं द्वितीयं पश्य ते सुतम्। `सरसीवामले सोमं प्रेक्षात्मानं त्वमात्मनि
यथाचाहवनीयोऽग्निर्वर्हपत्यात्प्रणीयते। एवं त्वत्तः प्रणीतोऽयं त्वमेकः सन्द्विधा कृतः
मृगापकृष्टेन हि वै मृगयां परिधावता। अहमासादिता राजन्कुमारी पितुराश्रमे
उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका। विश्वाची च घृताची च षडेवाप्सरसां वराः
तासां वै मेनका नाम ब्रह्मयोनिर्वराप्सराः। दिवः संप्राप्य जगतीं विश्वामित्रादजीजनत्
श्रीमानृषिर्धर्मपरो वैश्वानर इवापरः। ब्रह्मयोनिः कुशो नाम विश्वामित्रपितामहः
कुशस्य पुत्रो बलवान्कुशनाभश्च धार्मिकः। गाधिस्तस्य सुतो राजन्विश्वामित्रस्तु गाधिजः
एवंविधो मम पिता मेनका जननी वरा।' सा मां हिमवतः पृष्ठे सुषुवे मेनकाऽप्सराः
परित्यज्य च मां याता परात्मजमिवासती। `पक्षिणः पुम्यवन्तस्ते सहिता धर्मतस्तदा
पक्षैस्तैरभिगुप्ता च तस्मादस्मि शकुन्तला। ततोऽहमृषिणा दृष्टा काश्यपेन महात्मना
जलार्थमग्निहोत्रस्य गतं दृष्ट्वा तु पक्षिणः। न्यासभूतामिव मुनेः प्रददुर्मां दयावतः
कण्वस्त्वालोक्य मां प्रीतो हसन्तीति हविर्भुजः। स माऽरणिमिवादाय स्वमाश्रममुपागमत्
सा वै संभाविता राजन्ननुक्रोशान्महर्षिणा। तेनैव स्वसुतेवाहं राजन्वै वरवर्णिनी
विश्वामित्रसुता चाहं वर्धिता मुनिना नृप। यौवने वर्तमानां च दृष्टवानसि मां नृप
आश्रमे पर्णशालायां कुमारीं विजने तदा। धात्रा प्रचोदितां शून्ये पित्रा विरहितां मिथः
वाग्भिस्त्वं सूनृताभिर्मामपत्यार्थमचूचुदः। अकार्षीस्त्वाश्रमे वासं धर्मकामार्थनिश्चितम्
गान्धर्वेण विवाहेन विधिना पाणिमग्रहीः। साऽहं कुलं च शीलं च सत्यवादित्वमात्मनः
स्वधर्मं च पुरस्कृत्य त्वामद्य शरणं गता। तस्मान्नर्हसि संश्रुत्य तथेति वितथं वचः
स्वधर्मं पृष्ठतः कृत्वा परित्यक्तुमुपस्थिताम्। त्वन्नाथां लोकनाथस्त्वं नार्हसि त्वमनागसम्
किं नु कर्माशुभं पूर्वं कृतवत्यस्मि पार्थिव। यदहं बान्धवैस्त्यक्ता बाल्ये संप्रति वै त्वया
कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम्। इमं बालं तु संत्युक्तं नार्हस्यात्मजमात्मना
न पुत्रमभिजानामि त्वयि जातं शकुन्तले। असत्वचना नार्यः कस्ते श्रद्धास्यते वचः
अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे। विशेषतो मत्सकाशे दुष्टतापसि गम्यताम्
क्व महर्षिस्तपस्युग्रः क्वाप्सराः सा च मेनका। क्व च त्वमेवं कृपणा तापसीवेषधारिणी
अतिकायश्च पुत्रस्ते बालोऽतिबलवानयम्। कथमल्पेन कालेन सालस्कन्ध इवोद्गतः
सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे। यदृच्छया कामरागाज्जाता मेनकया ह्यसि
सर्वमेव परोक्षं मे यत्त्वं वदसि तापसि। `सर्वा वामाः स्त्रियो लोके सर्वाः कामपरायणाः