धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः। महता मेघवर्णेन नागानीकेन पृष्ठतः
एवं संनोद्य सर्वामि स्वान्यनीकानि पार्षतः। भीमसेनस्य जग्राह पार्ष्णि सत्पुरुषैर्वृतः
न हि पञ्चालराजस्य लोके कश्चन विद्यते। भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः
सोऽपश्यच्च कलिङ्गेषु चरन्तमरिसूदनः । भीमसेनं महाबाहुं पार्षतः परवीरहा
ननर्द बहुधा राजन्हृष्टश्चासीत्परंतपः। शङ्खं दध्मौ च समरे सिंहनादं ननाद च
स च पारावताश्वस्य रथे हेमपरिष्कृते। कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत्
धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् ।। भीमसेनममेयात्मा त्राणायाजौ समभ्ययात्
तौ दूरात्सात्यकिं दृष्ट्वा धृष्टद्युम्नवृकोदरौ । कलिङ्गान्समरे वीरौ योधयेतां मनस्विनौ
स तत्र गत्वा शैनेयो जवेन जयतां वरः। पार्थपार्षतयोः पार्षिं जग्राह पुरुषर्षभः
स कृत्कवा दारुणं कर्म प्रगृहीतशरासनः । आस्थितो रौद्रमात्मानं कलिङ्गानन्ववैक्षत
कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम्। रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम्
अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम्। तां संततार दुस्तारां भीमसेनो महाबलः
भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप। कालोऽयं भीमरूपेण कलिङ्गैः कसह युध्यते
ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे। अभ्ययात्त्वरितो भीमं व्यूढानीकः समंततः
तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः । अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम्
परिवार्य तु ते सर्वे गाङ्गेयं तरसा रणे। त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्च्छुरोजसा
प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव । यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः
ततः शरसहस्रेण सन्निवार्य महारथान् । हयान्काञ्चनसन्नाहान्भीमस्य न्यहनच्छरैः
हताश्वे स रथे तिष्ठन्भीमसेनः प्रतापवान् । शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति
अप्राप्तामथ तां शक्तिं पिता देवव्रतस्तव । त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत
ततः शैक्यायसीं गुर्वी प्रगृह्य बलवान्गदाम् । भीमसेनस्ततस्तूर्णं पुप्लुवे मनुजर्षभ
सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया । गाङ्गेयसारथिं तूर्णं पातयामास सायकैः
भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः । वातायमानैस्तैरश्वैरपनीतो रणाजिरात्
भीमसेनस्ततो राजन्नपयाते महाव्रते । प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः
स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत। नैनमभ्युत्सहन्केचित्तावका भरतर्षभ
धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः। पश्यतां सर्वसैन्यानामपोवाहक यशस्विनम्
संपूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ । धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम्
अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः । प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः
दिष्ट्या कालिङ्गराजश्च राजपुत्रश्च केतुमान । शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः
स्वबाहुबलवीर्येण नागाश्वरथसंकुलः । महापुरुषभूयिष्ठो धीरयोधनिषेवितः