प्रेषयामास संक्रुद्धो दर्शयन्पाणिलाघवम्। स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः
समाहतो महाराज कलिङ्गेन महात्मना । संचुक्रुशे भृशं भीमो दण्डाहत इवोरगः
क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः। कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः
क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ । सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम्
ततः पुनमेयात्मा नासचैर्निशितैस्त्रिभिः । केतुमन्तं रणे भीमोऽगमयद्यमसादनम्
ततः कलिङ्गाः सन्नद्धा भीमसेनममर्षणम् । अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन्
ततः शक्तिगदाखङ्गतोमरर्ष्टिपरश्वथैः । कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन्
संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम्। गदामादाय तरसा संनिपत्य महाबलः
भीमः सप्तशतान्वीराननयद्यमसादनम् । पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः
प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत्। एवं स तान्यनीकानि कलिङ्गानां पुनःपुनः
बिभेद समरे तूर्णं प्रेक्ष्य भीष्मं महारथम् । हतारोहाश्च मातङ्गाः पाण्डवेन कृता रणे
विप्रजग्मुरनीकेषु मेघा वातहता इव। मृद्गन्तः स्वान्यनीकानि विनदन्तः शरातुराः
ततो भीमो महाबाहुः खङ्गहस्तो महाभुजःक । संप्रहृष्टो महाघोषं शङ्खं प्राध्मापयद्बली
सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् । मोहश्चापि कलिङ्गानामाविवेश परंतप
प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः । भीमेन समरे राजन्गजेन्द्रेणेव सर्वशः
मार्गान्बहून्विचरता धावता च ततस्ततः। मुहुरुत्पतता चैव संमोहः समपद्यत
भीमसेनभयत्रस्तं सैन्यं च समकम्पत। क्षोभ्यमाणमसंबाधं ग्राहेणेव महत्सरः
त्रासितेषु च सर्वेषु भीमेनाद्भुतकर्मणा । पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः
सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः । अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः
सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः। भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः
धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः। महता मेघवर्णेन नागानीकेन पृष्ठतः
एवं संनोद्य सर्वामि स्वान्यनीकानि पार्षतः। भीमसेनस्य जग्राह पार्ष्णि सत्पुरुषैर्वृतः
न हि पञ्चालराजस्य लोके कश्चन विद्यते। भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः
सोऽपश्यच्च कलिङ्गेषु चरन्तमरिसूदनः । भीमसेनं महाबाहुं पार्षतः परवीरहा
ननर्द बहुधा राजन्हृष्टश्चासीत्परंतपः। शङ्खं दध्मौ च समरे सिंहनादं ननाद च
स च पारावताश्वस्य रथे हेमपरिष्कृते। कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत्
धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् ।। भीमसेनममेयात्मा त्राणायाजौ समभ्ययात्
तौ दूरात्सात्यकिं दृष्ट्वा धृष्टद्युम्नवृकोदरौ । कलिङ्गान्समरे वीरौ योधयेतां मनस्विनौ
स तत्र गत्वा शैनेयो जवेन जयतां वरः। पार्थपार्षतयोः पार्षिं जग्राह पुरुषर्षभः
स कृत्कवा दारुणं कर्म प्रगृहीतशरासनः । आस्थितो रौद्रमात्मानं कलिङ्गानन्ववैक्षत