निपेतुरुर्व्यां च तथा विनदन्तो महारवान्। छिन्नांश्च तोमरान्राजन्महामात्रशिरांसि च
परिस्तोमान्विचित्रांश्च कक्ष्याश्च कनकोज्ज्वलाः। ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा
तूणीरानथ यन्त्राणि धनूंषि च। भिन्दिपालानि शुभ्राणि तोत्राणि चाङ्कुशैः सह
घण्टाश्च विविधा राजन्हेमगर्भान्त्सरूनपि । पततः पातितांश्चैव पश्यामः सह सादिभिः
छिन्नगात्रावरकरैर्निहतैश्चाप वारणैः ।। आसीद्भूमिःक समास्तीर्णा पतितैर्भूधरैरिव
विमृद्यैवं महानागान्ममर्दाश्वान्महाबलः । अश्वारोहवरांश्चैव पातयामास संयुगे
तद्धोरमभवद्युद्धं तस्य तेषां च भारत। खलीनान्यथ योक्राणि कक्ष्याश्च कनकोज्ज्वलाः
परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः। कवचान्यथ चर्माणि चित्राण्यास्तरणानि च
तत्रतत्रापविद्धआनि व्यदृश्यन्त महाहवे। प्रासैर्यन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा
स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव । आप्लुत्य रथिनः काश्चित्परामृश्य महाबलः
पातयामास खङ्गेन सध्वजानपि पाण्डवः। मुहुरुत्पततो दिक्षु धावतश्च यशस्विनःक
मार्गांश्च चरतश्चित्रं व्यस्मयन्त रणे जनाः । स जघान पदा कांश्चिद्व्याक्षिप्यान्यानपोथयत्
खह्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन्। ऊरुवेगेन चाप्यन्यान्पातयामास भूतले
अपरे चैनमालोक्य भयात्पञ्चत्वमागताः। एवं सा बहुला सेना कलिङ्गानां तरस्विनाम्
परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत्। ततः कालिङ्गयैन्यानां प्रमुखे भरतर्षभ
श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात्। तमायान्तमभिप्रेक्ष्य कालिङ्गो नवभिः शरैः
भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे । कलिङ्गबाणाभिहतस्तोत्रार्दित इव द्विपः
भीमसेनः प्रजज्वाल क्रोदेनाग्निरिवैधितः। अथाशोकः समादाय रथं हेमपरिष्कृतम्
भीमं संपादयामास रथेन रथसारथिः। तामरुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः
कलिङ्गमभिदुद्राव तिष्ठितिष्ठेति चाब्रवीत् । ततः श्रुतायुर्बलावान्भीमाय निशिताञ्शरान्
प्रेषयामास संक्रुद्धो दर्शयन्पाणिलाघवम्। स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः
समाहतो महाराज कलिङ्गेन महात्मना । संचुक्रुशे भृशं भीमो दण्डाहत इवोरगः
क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः। कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः
क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ । सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम्
ततः पुनमेयात्मा नासचैर्निशितैस्त्रिभिः । केतुमन्तं रणे भीमोऽगमयद्यमसादनम्
ततः कलिङ्गाः सन्नद्धा भीमसेनममर्षणम् । अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन्
ततः शक्तिगदाखङ्गतोमरर्ष्टिपरश्वथैः । कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन्
संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम्। गदामादाय तरसा संनिपत्य महाबलः
भीमः सप्तशतान्वीराननयद्यमसादनम् । पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः
प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत्। एवं स तान्यनीकानि कलिङ्गानां पुनःपुनः