स चचार बहून्मार्गानभितः पातयन्गजान् । अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत
अश्वबृन्देषु नागेषु रथानीकेषु चाभिभूः । पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः
श्येनवद्व्यचरद्भीमो रणेऽरिषु बलोत्कटः। छिन्दंस्तेषाकं शरीराणि शिरांसि च महाबलः
खङघ्गेकन शितधारेण संयुगे गजयोधिनाम्। पदातिरेकः संक्रुद्धः शत्रूणां भयवर्धनः
संमाहयामास स तान्कालान्तकयमोपमः। मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन्
सासिमुत्तमवेगेन विचरन्तं महारणे। निकृत्य रथिनां चाजौ रथेषाश्च युगानि च
जघान रथिनश्चापि बलवान्रिपुमर्दनः। भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत
भ्रान्तमाविद्धमुद्भ्रान्तमाप्लुतं प्रसृतं प्लुतम् । संपातं समुदीर्णं च दर्शयामास पाण्डवः
केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना। विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः
छइन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथाऽपरे । वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः
निपेतुरुर्व्यां च तथा विनदन्तो महारवान्। छिन्नांश्च तोमरान्राजन्महामात्रशिरांसि च
परिस्तोमान्विचित्रांश्च कक्ष्याश्च कनकोज्ज्वलाः। ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा
तूणीरानथ यन्त्राणि धनूंषि च। भिन्दिपालानि शुभ्राणि तोत्राणि चाङ्कुशैः सह
घण्टाश्च विविधा राजन्हेमगर्भान्त्सरूनपि । पततः पातितांश्चैव पश्यामः सह सादिभिः
छिन्नगात्रावरकरैर्निहतैश्चाप वारणैः ।। आसीद्भूमिःक समास्तीर्णा पतितैर्भूधरैरिव
विमृद्यैवं महानागान्ममर्दाश्वान्महाबलः । अश्वारोहवरांश्चैव पातयामास संयुगे
तद्धोरमभवद्युद्धं तस्य तेषां च भारत। खलीनान्यथ योक्राणि कक्ष्याश्च कनकोज्ज्वलाः
परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः। कवचान्यथ चर्माणि चित्राण्यास्तरणानि च
तत्रतत्रापविद्धआनि व्यदृश्यन्त महाहवे। प्रासैर्यन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा
स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव । आप्लुत्य रथिनः काश्चित्परामृश्य महाबलः
पातयामास खङ्गेन सध्वजानपि पाण्डवः। मुहुरुत्पततो दिक्षु धावतश्च यशस्विनःक
मार्गांश्च चरतश्चित्रं व्यस्मयन्त रणे जनाः । स जघान पदा कांश्चिद्व्याक्षिप्यान्यानपोथयत्
खह्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन्। ऊरुवेगेन चाप्यन्यान्पातयामास भूतले
अपरे चैनमालोक्य भयात्पञ्चत्वमागताः। एवं सा बहुला सेना कलिङ्गानां तरस्विनाम्
परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत्। ततः कालिङ्गयैन्यानां प्रमुखे भरतर्षभ
श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात्। तमायान्तमभिप्रेक्ष्य कालिङ्गो नवभिः शरैः
भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे । कलिङ्गबाणाभिहतस्तोत्रार्दित इव द्विपः
भीमसेनः प्रजज्वाल क्रोदेनाग्निरिवैधितः। अथाशोकः समादाय रथं हेमपरिष्कृतम्
भीमं संपादयामास रथेन रथसारथिः। तामरुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः
कलिङ्गमभिदुद्राव तिष्ठितिष्ठेति चाब्रवीत् । ततः श्रुतायुर्बलावान्भीमाय निशिताञ्शरान्