महीं चक्रुश्चितां सर्वां शशलोहितसन्निभाम् । योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया
स्वानप्याददते स्वाश्च शूराः परमदुर्जयाः। विमर्दः सुमहानासीदल्पानां बहुभिः सह
कलिङ्गैः सह चैदीनां निषादैश्च विशांपते । कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः
भीमसेनं परित्यज्य संन्यवर्तनक्त चेदयः। सर्वैः कलिङ्गैरासन्नः सन्निवृत्तेषु चेदिषु
स्वबाहुबलमस्थाय अभ्यवर्षन्त पाण्डवम् । न चचाल रथोपस्थाद्भीमसेनो महाबलः
शितैरवाकिरद्बाणैः कलिङ्गानां वरूथिनीम् । कालिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः
शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः। ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः
योधयामास कालिङ्गं स्वबाहुबलमाश्रितः। शक्रदेवस्तु समरे विसृजन्सायकान्बहून्
अश्वाञ्जघान समरे भीमसेनस्य सायकैः। तं दृष्ट्वा विरथं तत्र भीमसेनमरिन्दमम्
शक्रदेवोऽभिदुद्राव शरैरवकिरञ्सितैः। भीमस्योपरि राजेन्द्र शक्रदेवो महाबलः
ववर्ष शरवर्षाणि तपान्ते जलदो यथा। हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः
शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम्। स तया निहतो राजन्कालिङ्गतनयो रथात्
विरथः सह सूतेन जगाम धरणीतलम्। कहतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः
रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः । `अयुतेन गजानां च निषादैः परिवारितः।' ततो भीमो महावेगां त्यक्त्वा गुर्वी महागदां
निस्त्रिंशमाददे घोरं चिकीर्षुः कर्म दारुणम् । चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ
नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् । कालिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य च
प्रगृह्य च शरं घोरमेकं सर्पविषोपमम्। प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः
तमापतन्तं वेगेन प्रेरितं निशितं शरम्। भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना
उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् । कालिङ्गोऽथ ततः क्रुद्धो भीमसेनाय संयुगे
तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान्। तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः
चिच्छेद सहसा राजन्नसंभ्रान्तो वरासिना। नित्यत्य तु रणे भीमस्तोमरान्वै चतुर्दश
भानुमन्तं ततो भीमः प्राद्रवत्पुरुषर्षभः । भानुमांस्तु ततो भीमं शरवर्षेण च्छादयन्
ननाद बलवन्नादं नादयानो नभस्तलम्। न च तं ममृषे भीमः सिंहनादं महाहवे
ततः शब्देन महता विननाद महास्वनः। तेन नादेन वित्रस्ता कलिङ्गानां वरूथिनी
न भीमं समरे मेने मानुषं भरतर्षभ । ततो भीमो महाबाहुर्नर्दित्वा विपुलं स्वनम्
सासिर्वेगवदाप्लुत्य दन्ताभ्यां वारणोत्तमम् । आरुरोह ततो मध्यं नागराजस्य मारिष
ततो मुमोच कालिङ्गः शक्तिं तामकरोद्द्वीधा । खङ्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत्
सोऽन्तरायुधिनं हत्वा राजपुत्रमरिन्दमः। गुरुभारसहे स्कन्धे नागस्यासिमपातयत्
छिन्नस्कन्धः स विनदन्पपात गजयूथपः। आरुगणः सिन्धुवेगन सानुमानिव पर्वतः
ततस्तस्मादप्लुत्य गजाद्भारत भारतः। खङ्गपाणिरदीनात्मा तस्थौ भूमौ सुदंशितः