निवारितस्तु द्रोणेन धृष्टद्युम्नो महारथः । न्यावारयच्छरौघांस्तांश्चर्मणा कृतहस्तवत्
ततो भीमो महाबाहुः सहसाऽभ्यपतद्बली । साहाय्यकारी समरे पार्षतस्य महात्मनः
स द्रोमं निशितैर्बाणै राजन्विव्याध सप्तभिः । पार्षतं च रथं तूर्णं स्वकमारोहयत्तदा
ततो दुर्योधनो राजन्कलिङ्गं समचोदयत्। सैन्येन महता युक्तं भारद्वाजस्य रक्षणे
ततः सा महती सेन कलिङ्गानां जनेश्वर । भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात्
पाञ्चाल्यमथ संत्यज्य द्रोणोऽपि रथिनां वरः। विराटद्रुपदौ वृद्धौ वारयामास संयुगे
धृष्टद्युम्नोऽपि समरे धर्मराजानमभ्ययात्। ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्
कलिङ्गानां च समरे भीष्मस्य च महात्मनः । जगतः प्रक्षयकरं घोररूपं भयावहम्
मम पुत्रसमादिष्टः कलिङ्गोः वाहिनीपतिः। कथमद्भुतकर्माणं भीमसेनं महाबलम्
चरन्तं गदया वीर दण्डहस्तमिवान्तकम् । योधयामास समरे कलिङ्गः सह सेनया
पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः । महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति
तामापतन्तीं महतीं कलिङ्गानां महाचमूम्। रथाश्वनागकलिलां प्रगृहीतमहायुधाम्
भीमसेनः कलिङ्गानामार्च्छद्भारत वाहिनीम् । केतुमन्तं च नैषादिमायान्तं सह चेदिभिः
ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह। आससाद रणे भीमं व्यूढानीकेषु चेदिषु
रथैरनेकसाहस्रैः कलिङ्गानां नराधिप । अयुतेन गजानां च निषादैःक सह केतुमान्
भिमसेनं रणे राजन्समन्तात्पर्यवारयत् । चेदिमत्स्यकरूषाश्च भीमसेनपदानुगाः
अभ्यधावन्त समरे निषादान्सह राजभिः । ततः प्रववृते युद्धं घोररूपं भयावहम्
न प्राजानन्त योधाः स्वान्परस्परजिघांसया । घोरमासीत्ततो युद्धं भीमस्य सहसा परैः
यथेन्द्रस्य महाराज महत्या दैत्यसेनया। तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत
बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः। अन्योन्यं स्म तदा योधा विकर्षन्तो विशांपते
महीं चक्रुश्चितां सर्वां शशलोहितसन्निभाम् । योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया
स्वानप्याददते स्वाश्च शूराः परमदुर्जयाः। विमर्दः सुमहानासीदल्पानां बहुभिः सह
कलिङ्गैः सह चैदीनां निषादैश्च विशांपते । कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः
भीमसेनं परित्यज्य संन्यवर्तनक्त चेदयः। सर्वैः कलिङ्गैरासन्नः सन्निवृत्तेषु चेदिषु
स्वबाहुबलमस्थाय अभ्यवर्षन्त पाण्डवम् । न चचाल रथोपस्थाद्भीमसेनो महाबलः
शितैरवाकिरद्बाणैः कलिङ्गानां वरूथिनीम् । कालिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः
शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः। ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः
योधयामास कालिङ्गं स्वबाहुबलमाश्रितः। शक्रदेवस्तु समरे विसृजन्सायकान्बहून्
अश्वाञ्जघान समरे भीमसेनस्य सायकैः। तं दृष्ट्वा विरथं तत्र भीमसेनमरिन्दमम्
शक्रदेवोऽभिदुद्राव शरैरवकिरञ्सितैः। भीमस्योपरि राजेन्द्र शक्रदेवो महाबलः