ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम् । द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी
तामापतन्तीं सहसा शक्तिं कनकभूषिताम्। त्रिधा चिच्छेद समरे भारद्वाजो हसन्निव
शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतपवान् । ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वरः
शरवर्षं ततस्तत्तु सन्निवार्य महायशाः। द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम्
स च्छिन्नधन्वा समरे गदां गुर्वी महायशाः । द्रोणाय प्रेषयामास गिरिसारमयीं बली
सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया । तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम्
लाघवाद्व्यंसयामास गदां हेमविभूषिताम्। व्यंसयित्वा गदां तां च प्रेषयामास पार्षतम्
भल्लान्सुनिशितान्पीतातान्रुक्मपुङ्खान्सुदारुणान्। ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे
अथान्यद्धनुरादाय धृष्टद्युम्नो महारथः । द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः
रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ । वसन्तसमये राजन्पुष्पिताविव किंशुकौ
अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे । द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम्
अथैनं छिन्नधन्वानं शरैः सन्नतपर्वभिः । अभ्यवर्षदमेयात्मा वृष्ट्या मेघ इवाचलम्
सारथिं चास्य भल्लेन रथनीजादपातयत् । अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः
पातयामास समरे सिंहनादं ननाद च। ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत्
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । गदापाणिरवारोहत्स्व्यापयन्पौरुषं महत्
तामस्य विशिस्वैस्तूर्णं पातयामास भारत । रथादनवरूढस्य तदद्भुतमिवाभवत्
ततः स विपुलं चर्म शतचन्द्रं च भानुमत्। खङ्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली
अभिदुद्राव वेगेन द्रोणस्य वधाकाङ्क्षया। आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम्
तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् । लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत
यदेनं शरवर्षेण वारयामास पार्षतम् । न शशाक ततो गन्तुं बलवानपि संयुगे
निवारितस्तु द्रोणेन धृष्टद्युम्नो महारथः । न्यावारयच्छरौघांस्तांश्चर्मणा कृतहस्तवत्
ततो भीमो महाबाहुः सहसाऽभ्यपतद्बली । साहाय्यकारी समरे पार्षतस्य महात्मनः
स द्रोमं निशितैर्बाणै राजन्विव्याध सप्तभिः । पार्षतं च रथं तूर्णं स्वकमारोहयत्तदा
ततो दुर्योधनो राजन्कलिङ्गं समचोदयत्। सैन्येन महता युक्तं भारद्वाजस्य रक्षणे
ततः सा महती सेन कलिङ्गानां जनेश्वर । भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात्
पाञ्चाल्यमथ संत्यज्य द्रोणोऽपि रथिनां वरः। विराटद्रुपदौ वृद्धौ वारयामास संयुगे
धृष्टद्युम्नोऽपि समरे धर्मराजानमभ्ययात्। ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्
कलिङ्गानां च समरे भीष्मस्य च महात्मनः । जगतः प्रक्षयकरं घोररूपं भयावहम्
मम पुत्रसमादिष्टः कलिङ्गोः वाहिनीपतिः। कथमद्भुतकर्माणं भीमसेनं महाबलम्
चरन्तं गदया वीर दण्डहस्तमिवान्तकम् । योधयामास समरे कलिङ्गः सह सेनया