अन्तरं च प्रहारेषु तर्कयन्तौ परस्परम् । राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः
उभौ सिंहरवोन्मिश्रं शङ्खशब्दं च चक्रतुः । तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ
तयोः शङ्खनिनादेन रथनेमिस्वनेन च। दारिता सहसा भूमिश्चकम्पे च ननाद च
नोभयोरन्तरं कश्चिद्ददृशे भरतर्षभ । बलिनौ युद्धदुर्धर्षावन्योन्यसदृशावुभौ
चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः । तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरेक
तयोर्नृवरयोर्दृष्ट्वा तादृशं तं पराक्रमम्। विस्कमयं सर्वभूतानि जग्मुर्भारतसंयुगे
न तयोर्विवरं कश्चिद्रणे पश्यति भारत। धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित्
उभौ च शरजालेन तावदृश्यो बभूवतुः। प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे
तत्र देवाः सगन्धर्वाश्चारणाश्चर्षिभिः सह। अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम्
न शक्यौ युधि संरब्धौ जेतुमेतौ कथंचन। सदेवासुरगन्धर्वैर्लोकैरपि महारथौ
आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् । नैतादृशानि युद्धानि भविष्यन्ति कथंचन
न हि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता। सधनुः सरथः साश्वः प्रवपन्सायकान्रणे
तथैव पाण्डवं युद्धे देवैरपि दुरासदम् । न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम्
आलोकादपि युद्धं हि सममेतद्भविष्यति। इति स्म वाचोऽश्रूयन्त प्रोच्चरन्त्यकस्ततस्ततः। गाङ्गेयार्जुनयोः सङ्ख्ये स्तवयुक्ता विशांपते
त्वदीयास्तु तदा योधाः पाण्डवेयाश्च भारत। अन्योन्यं समरे जघ्नुस्तयोस्तत्र समागमे
शितधारैस्तथा स्वङ्गैर्विमलैश्च परश्वधैः । शरैरन्यैश्च बहुभिः सस्त्रैर्नानाविधैरपि
उभयोः सेनयोः शूरा न्यकृन्तन्त परस्परम् । वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे। द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः
कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः। उभौ समीयतुर्यत्तौ तन्ममाचक्ष्व सञ्जय
दिष्टमेव परं मन्ये पौरुषादिति मे मतिः। यत्र शान्तनवो भीष्मो नातरद्युधि पाण्डवम्
भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान्। स कथं पाण्डवं युद्धे नातरत्सञ्जयौजसा
श्रृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम्। न शक्याः पाण्डवा जेतुं देवैरपि सवासवैः
द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमविध्यत। सारथिं चास्य भल्लेन रथनीडादपातयत्
तथाऽस्य चतुरो वाहांश्चतुर्भिः सायकोत्तमैः । पीडयामास संक्रुद्धो धृष्टद्युम्नस्य मारिष
धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः । विव्याध प्रहसन्वीरस्तिष्ठतिष्ठेति चाब्रवीत्
ततः पुनरमेयात्मा भारद्वाजः प्रतापवान्। शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम्
आददे च शरं घोरं पार्षतान्तचिकीर्षकया। शक्राशनिसमस्पर्शं कालदण्डमिवापरम्
हाहाकारो महानासीत्सर्वसैन्येषु भारत । तमिषुं संधितं दृष्ट्वा भारद्वाजेन संयुगे
तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम्। यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः
तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः । चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह
तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह। धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम्