ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः । पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे
एष पाण्डुसुतस्तात कृष्णेन सहितो बली। यततां सर्वसैन्यानां मूलं नः परिकृन्तति। त्वयि जीवति गाङ्गेय द्रोणे च रथिनां वरे
त्वत्कृते चैव कर्णोऽपि न्यस्तशस्त्रो विशांपते। न युध्यति रणे पार्थान्हितकामः सदा मम। स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः
एवमुक्तस्ततो राजन्पिता देवव्रतस्तव। धिक् क्षात्रं धर्ममित्युक्त्वा प्रायात्पार्थं रथं प्रति
उभौ श्वेतहयौ राजन्संसक्तौ प्रेक्ष्य पार्थिवाः । सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च मारिषत
द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः । परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष
तथैव पाण्डवाः सर्वे परिवार्य धनञ्जयम् । स्थिता युद्धाय महते ततो युद्धमवर्तत
गाङ्गेयस्तु रणे पार्थमानर्च्छन्नवभिः शरैः । तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मभेदिभिः
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः । अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः
शरजालं ततस्तत्तु शरजालेन मारिष। वारयामास पार्थस्य भीष्मः शान्तनवस्तदा
उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ । निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ
भीष्मचापविमुक्तानि शरजालानि शङ्घशः। शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैःक
तथैवार्जुनमुक्तानि शरजालानि सर्वशः । गाङ्गेयशरनुन्नानि प्रापतन्त महीतले
अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः । भीष्मोपि समरे पार्थं विव्याध निशितैः शरैः
अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ । रथेषां रथचक्रे च चिक्रीडतुररिन्दमौ
ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः। वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे
भीष्मचापच्युतैस्तैस्तु निर्विद्धो मधुसूदनः । विरराज रणे राजन्सपुष्प इव किंशुकः
ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् । सारथिं कुरुवृद्धस्य निर्बिभेद शितैः शरैः
यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति। न शक्नुतां तदाऽन्योन्यमभिसन्धातुमाहवे
तौ मण्डलानि चित्राणि गतत्प्रत्यागतानि च। अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात्
अन्तरं च प्रहारेषु तर्कयन्तौ परस्परम् । राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः
उभौ सिंहरवोन्मिश्रं शङ्खशब्दं च चक्रतुः । तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ
तयोः शङ्खनिनादेन रथनेमिस्वनेन च। दारिता सहसा भूमिश्चकम्पे च ननाद च
नोभयोरन्तरं कश्चिद्ददृशे भरतर्षभ । बलिनौ युद्धदुर्धर्षावन्योन्यसदृशावुभौ
चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः । तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरेक
तयोर्नृवरयोर्दृष्ट्वा तादृशं तं पराक्रमम्। विस्कमयं सर्वभूतानि जग्मुर्भारतसंयुगे
न तयोर्विवरं कश्चिद्रणे पश्यति भारत। धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित्
उभौ च शरजालेन तावदृश्यो बभूवतुः। प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे
तत्र देवाः सगन्धर्वाश्चारणाश्चर्षिभिः सह। अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम्
न शक्यौ युधि संरब्धौ जेतुमेतौ कथंचन। सदेवासुरगन्धर्वैर्लोकैरपि महारथौ