ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम्। मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम्। ह्रदप्रवेशनं पर्व गदायुद्धमतः परम्
सारस्वतं ततः पर्व तीर्थवंशानुकीर्तनम्। अत ऊर्ध्वं सुबीभत्सं पर्व सौप्तिकमुच्यते
ऐषीकं पर्व चोद्दिष्टमत ऊर्ध्वं सुदारुणम्। जलप्रदानिकं पर्व स्त्रीविलापस्ततः परम्
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम्। चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः
आभिषेचनिकं पर्व धर्मराजसर्य धीमतः। प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम्
शान्तिपर्व ततो यत्र राजधर्मानुशासनम्। आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम्
शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशासनम्। प्रादुर्भावश्च दुर्वासःसंवादश्चैव मायया
ततः पर्व परिज्ञेयमानुशासनिकं परम्। स्वर्गारोहणिकं चैव ततो भीष्मस्य धीमतः
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च। नारदागमनं पर्व ततः परमिहोच्यते
मौसलं पर्व चोद्दिष्टं ततो घोरं सुदारुणम्। महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः
हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम्। विष्णुपर्व शिशोश्चर्या विष्णोः कंसवधस्तथा
भविष्यं पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत्। एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना
यथावत्सूतपुत्रेण रौमहर्षणिना ततः। उक्तानि नैमिशारण्ये पर्वाण्यष्टादशैव तु
समासो भारतस्यायमत्रोक्तः पर्वसंग्रहः। पौष्यं पौलोममास्तीकमादिरंशावतारणम्
संभवो जतुवेश्माख्यं हिडिम्बबकयोर्वधः। तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवरः
क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्। विदुरागमनं चैव राज्यलाभस्तथैव च
वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः। हरणाहरणं चैव दहनं खाण्डवस्य च
पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः। आस्तीके सर्वनागानां गरुडस्य च संभवः
क्षीरोदमथं चैव जन्मोच्चैःश्रवसस्तथा। यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च
कथेयमभिनिर्वृत्ता भारतानां महात्मनाम्। विविधाः संभवा राज्ञामुक्ताः संभवपर्वणि
अन्येषां चैव शूराणामृषेर्द्वैपायनस्य च। अंशावतरणं चात्र देवानां परिकीर्तितम्
दैत्यानां दानवानां च यक्षाणां च महौजसाम्। नागानामथ सर्पाणां गन्धर्वाणां पतत्त्रिणाम्
अन्येषां चैव भूतानां विविधानां समुद्भवः। महर्षेराश्रमपदे कण्वस्य च तपस्विनः
शकुन्तलायां दुष्यन्ताद्भरतश्चापि जज्ञिवान्। यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम्
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम्। शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि
तेजोंशानां च संपातो भीष्मस्याप्यत्र संभवः। राज्यान्निवर्तनं तस्य ब्रह्मचर्यव्रते स्थितिः
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च। हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः
विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम्। धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा। धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः