पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना । सोऽहं भीष्मं वधिष्यामि सैन्यहेतोर्जनार्दन
तमब्रवीद्वासुदेवो यत्तो भव धनंजय। एष त्वां प्रापयिष्यामि पितामहरथं प्रति
एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् । प्रापयामास भीष्मस्य रथं प्रति जनेश्वर
चलद्बहुपातकेन बलाकावर्णवाजिना । समुच्छ्रितमहाभीमनदद्वानरकेतुना
महता मेघनादेन रथेनामिततेजसा । विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः
प्रायाच्छरणदः शीघ्रं सुहृदां हर्षवर्धनः । तमापतन्तं वेगेन प्रभिन्नमिव वारणम्
त्रसयनतं रणे शूरान्मर्दयन्तं च सायकैः । सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः । सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम्
को हि गाण्डीवधन्वानमन्यः कुरुपितामहात्। द्रोणवैकर्तनाभ्यां वा रथी संयातुमर्हति
ततो भीष्मो महाराज सर्वलोकमहारथः । अर्जुनं सप्ततसप्तत्या नाराचानां समाचिनोत्
द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः। दुर्योधनश्रतुःषष्ट्या शल्यश्च नवभिः शरैः
सैन्धवो नवभिश्चैव शकुनिश्चापि पञ्चभिः । विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम्
स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः। न विव्यथे महाबाहुर्भिद्यमान इवाचलः
स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः । द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः
शल्यं चैव त्रिभिर्बाणै राजानं चैव पञ्चभिः । प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ
तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः। सौभद्रो द्रौपदेयाश्च परिवव्रुर्धनंजयम्
ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम्। अभ्यवर्तत पाञ्चाल्यः संयुक्तः सह सोमकैः
भीष्मस्तु रथिनां श्रेष्ठो राजन्विव्याध पाण्डवम्। अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त पाण्डवाः
तेषां तु निनदं श्रुत्वा सहितानां प्रहृष्टवत्। प्रविवेश ततो मध्यं नरसिंहः प्रतापवान्
तेषां महारथानां स मध्यं प्राप्य धनंजयः। चिक्रीड धनुषा राजँल्लक्षं कृत्वा महारथान्
क्षत्रियाणां शिरांस्युग्रैः कृन्तञ्शस्त्रैर्महारथः । शून्यान्कृत्वा रथोपस्थान्व्यचरत्फल्गुनस्तदा
ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः । पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे
एष पाण्डुसुतस्तात कृष्णेन सहितो बली। यततां सर्वसैन्यानां मूलं नः परिकृन्तति। त्वयि जीवति गाङ्गेय द्रोणे च रथिनां वरे
त्वत्कृते चैव कर्णोऽपि न्यस्तशस्त्रो विशांपते। न युध्यति रणे पार्थान्हितकामः सदा मम। स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः
एवमुक्तस्ततो राजन्पिता देवव्रतस्तव। धिक् क्षात्रं धर्ममित्युक्त्वा प्रायात्पार्थं रथं प्रति
उभौ श्वेतहयौ राजन्संसक्तौ प्रेक्ष्य पार्थिवाः । सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च मारिषत
द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः । परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष
तथैव पाण्डवाः सर्वे परिवार्य धनञ्जयम् । स्थिता युद्धाय महते ततो युद्धमवर्तत
गाङ्गेयस्तु रणे पार्थमानर्च्छन्नवभिः शरैः । तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मभेदिभिः
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः । अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः
शरजालं ततस्तत्तु शरजालेन मारिष। वारयामास पार्थस्य भीष्मः शान्तनवस्तदा