पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः। पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः
अन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ
काशिराजश्च शैब्यश्च शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः
पाञ्चाल्याश्च महेष्वासा द्रौपद्याः पञ्च चात्मजाः । सर्वे दध्युर्महाशङ्खान्सिंहनादांश्च नेदिरे
स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्
एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः। पुनर्युद्धाय संजग्मुस्तापयानाः परस्परम्
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च । कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे
तथा व्यूढेष्वनीकेषु सन्नद्धरुचिरध्वजाः। `तावकाः पाण्डवैः सार्धं यथाऽयुध्यन्त तच्छृणु।' अपारमिव संदृश्य सागरप्रतिमं बलम्
तेषां मध्ये स्थितो राजन्पुत्रो दुर्योधनस्तव । अब्रवीत्तावकान्सर्वान्युद्ध्यध्वमिति दंशिताः
ते मनः क्रूरमाधाय समभित्यक्तजीविताः । पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः
ततो युद्धं समभवत्तुमुलं रोमहर्षणम्। तावकानां परेषां च व्यतिषक्तरथद्विपम्
मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजिताःक । सन्निपेतुरकुण्ठाग्रा नागेषु च हयेषु च
तथा प्रवृत्ते संग्रामे धनुरुद्यम्य दंशितः । अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः
सौभद्रे भीमसेने च सात्यकौ च महारथे । कैकेये च विराटे च धृष्टद्युम्ने च पार्षते
एतेषु नरवीरेषु चेदिमत्स्येषु चाभिभूः । ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः
अभिद्यत ततो व्यूहस्तस्मिन्वीरसमागमे। सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान्
सादिनो ध्वजिनश्चैव हतप्रवरवाजिनः । विप्रद्रुतरथानीकाः समपद्यन्त पाण्डवाः
अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् । वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः
एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम् । नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः
एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन । धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः
पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना । सोऽहं भीष्मं वधिष्यामि सैन्यहेतोर्जनार्दन
तमब्रवीद्वासुदेवो यत्तो भव धनंजय। एष त्वां प्रापयिष्यामि पितामहरथं प्रति
एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् । प्रापयामास भीष्मस्य रथं प्रति जनेश्वर
चलद्बहुपातकेन बलाकावर्णवाजिना । समुच्छ्रितमहाभीमनदद्वानरकेतुना
महता मेघनादेन रथेनामिततेजसा । विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः
प्रायाच्छरणदः शीघ्रं सुहृदां हर्षवर्धनः । तमापतन्तं वेगेन प्रभिन्नमिव वारणम्
त्रसयनतं रणे शूरान्मर्दयन्तं च सायकैः । सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः । सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम्
को हि गाण्डीवधन्वानमन्यः कुरुपितामहात्। द्रोणवैकर्तनाभ्यां वा रथी संयातुमर्हति
ततो भीष्मो महाराज सर्वलोकमहारथः । अर्जुनं सप्ततसप्तत्या नाराचानां समाचिनोत्
द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः। दुर्योधनश्रतुःषष्ट्या शल्यश्च नवभिः शरैः