ततो दुर्योधनो राजा सहितः सर्वसोदरैः । अश्वातर्केर्विकर्णैश्च तथा चाम्बष्ठकोसलैः
दरदैश्च शकैश्चैव तथा क्षुद्रकमालवैः । अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम्
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिषः। विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन्
सौमदत्तिः सुशर्मा च काम्भोजश्च सुदक्षिणः। श्रुतायुश्चाच्युतायुश्च दक्षिणं पक्षमास्थिताः
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः । महत्या सेनया सार्धं सेनापृष्टे व्यवस्थिताः
पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः। केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः
ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत। दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांस्तथोन्नदन्
तेषां श्रुत्वा तु हृष्टानां वृद्धः कुरुपितामहः। सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्
ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः। आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ
पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः। पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः
अन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ
काशिराजश्च शैब्यश्च शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः
पाञ्चाल्याश्च महेष्वासा द्रौपद्याः पञ्च चात्मजाः । सर्वे दध्युर्महाशङ्खान्सिंहनादांश्च नेदिरे
स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्
एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः। पुनर्युद्धाय संजग्मुस्तापयानाः परस्परम्
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च । कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे
तथा व्यूढेष्वनीकेषु सन्नद्धरुचिरध्वजाः। `तावकाः पाण्डवैः सार्धं यथाऽयुध्यन्त तच्छृणु।' अपारमिव संदृश्य सागरप्रतिमं बलम्
तेषां मध्ये स्थितो राजन्पुत्रो दुर्योधनस्तव । अब्रवीत्तावकान्सर्वान्युद्ध्यध्वमिति दंशिताः
ते मनः क्रूरमाधाय समभित्यक्तजीविताः । पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः
ततो युद्धं समभवत्तुमुलं रोमहर्षणम्। तावकानां परेषां च व्यतिषक्तरथद्विपम्
मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजिताःक । सन्निपेतुरकुण्ठाग्रा नागेषु च हयेषु च
तथा प्रवृत्ते संग्रामे धनुरुद्यम्य दंशितः । अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः
सौभद्रे भीमसेने च सात्यकौ च महारथे । कैकेये च विराटे च धृष्टद्युम्ने च पार्षते
एतेषु नरवीरेषु चेदिमत्स्येषु चाभिभूः । ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः
अभिद्यत ततो व्यूहस्तस्मिन्वीरसमागमे। सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान्
सादिनो ध्वजिनश्चैव हतप्रवरवाजिनः । विप्रद्रुतरथानीकाः समपद्यन्त पाण्डवाः
अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् । वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः
एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम् । नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः
एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन । धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः